________________
सर्गः]
टीकया सहितम्
२४९
आसनानां डंबरो यत्र तत् ॥ ४२ ॥ वर्णस्फातिस्फुरदंगिवर्ण सुष्ठु शोभनस्य अर्णस्य पानीयस्य स्फात्या स्फुरंत्यो भंगयस्तरंगास्तैर्वर्ण्यम् , पक्षे स्वर्णस्य स्फात्या स्फुरन्त्यो भंगयो ३ विच्छित्तयस्ताभिर्वर्ण्य विश्वोपकारकृत् ॥ ४३ ॥ युग्मम् ॥ क्वचिद्वायुवशोद्धृतवीचीनीचीकृताचलम् । उद्वृत्तपृष्ठैः पाठीनैः, कृतद्वीपभ्रमं क्वचित् ॥४४॥ ६ पीयमानोदकं कापि, सतृपैरिव वारिदैः। रत्नाकरं कुरङ्गाक्षी,वीक्ष्यमाणा विसिष्मिये ॥४५॥
युग्मम् ॥ १ क्वचि० कुरंगाक्षी सुमंगला रत्नाकरं समुद्रं वीक्ष्यमाणा सती विसिष्मिये विस्मयं प्राप्ता । किंलक्षणं रत्नाकरम् ? सर्वाणि रत्नाकरस्यैव विशेषणानि । कचिद्वायुवशोद्भूतवीचीनीचीकृ-१२ ताचलम् , वायुवशेन उत्पाटिता ये वीचयः कल्लोलास्तैर्नीचीकृताः पर्वता येन तं वायु० । कचित् उद्वृत्तपृष्ठैः उत्पाटितपृष्ठविभागैः पाठीनैर्मत्स्यविशेषैः कृतद्वीपभ्रमम् ॥ ४४ ॥ उत्प्रेक्ष्यते-सतृषि-१५ तैरिव वारिदैर्मेधैः कचित् पीयमानोदकम् ॥ ४५ ॥ युग्मम् ॥
सूर्यबिम्बादिवोद्भूतं, जन्मस्थानमिवार्चिषाम् ।। चरिष्णुमिव रत्नादि, भारादिव दिवश्युतम् ॥ ४६ ॥१८ दीव्यद्देवांगनं रत्नभित्तिरुग्भिः क्षिपत्तमः। अभूदभ्रंकषं तस्या, विमानं नयनातिथिः॥४७॥ ..
युग्मम् ॥ २१ सूर्य० विमानं तस्याः सुमंगलाया नयनातिथिरभूत् , तया विमानं दृष्टमित्यर्थः । किंलक्षणं विमानम् ? एतानि सर्वाणि २३
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org