SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४६ जैनकुमारसंभवं [सप्तमः लोभेन वेष्टितम् । दाम्न एव सर्वाणि विशेषणानि । तन्व्याः स्त्रियाः दोःपाशवत् भुजापाशवत् पुण्यभाजां भाग्यवतां कंठ३ ग्रहोचितं कंटक्षेपणयोग्यम् ॥ ३२ ॥ उत्प्रेक्ष्यते-पारिजातन प्रहितं प्राभृतमिव ढौकनमिव जगत्प्रियं विश्वाभीष्टम् । असमं निरुपमम् ॥ ३३ ॥ युग्मम् ॥ ६ चकोराणां सुमनसामिव प्रीतिप्रदामृतम् । रोहिण्या इव यामिन्या, हृदयंगमतां गतम् ॥३४॥ संप्राप्तकौमुदीसारं, कामुकैरिव कैरवैः । ९ आस्से विशंतं पीयूषमयूखं सा निरैक्षत ॥३५॥ युग्मम् ।। चको० सा सुमंगला आस्ये मुखे विशंतं प्रविशंतं पीयूषमयूखं चन्द्रमसं निरैक्षत दृष्टवती । किंलक्षणं चन्द्रमसम् ? १२ एतानि सर्वाणि चन्द्रस्येव विशेषणानि । सुमनसां देवानामिव चकोराणां प्रीतिप्रदामृतम् । यामिन्या इव रात्रेरिव रोहिण्या हृदयंगमतां गतं भर्तृत्वं प्राप्तवन्तम् ॥ ३४ ॥ कामुकैरिव १५ कैरवैः कुमुदैनिविष्टकौमुदीसारम् उपभुक्तज्योत्स्नासारम् ॥३५॥ युग्मम् ॥ क्षिपन् गुहासु शैलानां, लोकादुत्सारितं तमः । १० सङ्कोचं मोचितं पद्मवनाद् घूकदृशां दिशन् ॥ ३६॥ न्यस्यन् प्राकाश्यमाशासु, तारकेभ्योऽपकर्षितम् । . स्वमेऽपि मेरयामास, तस्या हृत्कमलं रविः॥३७॥ युग्मम् ॥ क्षिप० रविः सूर्यस्तस्याः सुमंगलायाः हृत्कमलं स्वप्नेऽपि २५ मेरयामास विकासयति स्म । किं कुर्वन् रविः ? सर्वाणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy