________________
२४४
जैनकुमारसंभवं [सप्तमः ककुमंतम् ? एतानि सर्वाणि ककुद्मत एव विशेषणानि, किं कुर्वतं वृषभं अर्जितम् ? बलवन्तम , गर्जतम् । उत्प्रेक्ष्यते-शकुनका३ मानां शकुनाभिलाषिणां भाग्यरेव । उत्प्रेक्ष्यते-चतुश्चरणचारुतां
चतुर्भिः चरणैर्मनोज्ञत्वं प्राप्तं शुभं उज्वलं पुण्यमिव ॥ २६ ॥ सिन्धुरोधक्षम नद्या रोधसमर्थ एवंविधं रोधस्तटं मृल्लवलीलया ६ मृत्तिकालववत् खण्डवत् स्यन्तं पातयन्तम् । उत्प्रेक्ष्यतेसशृङ्गं कैलासमिव ॥ २ ॥ युग्मम् ।।
अप्यतुच्छतया पुच्छाघातकंपितभूतलम् । अत्युदारदरीक्रोडक्रीडत्क्ष्वेडाभयंकरम् ॥ २८ ॥ सद्यो भिन्नेमकुम्भोत्थव्यक्तमुक्तोपहारिणम् । हरिणाक्षी हरिं स्वप्न दृष्टं सा बह्वमन्यत ॥ २९ ॥
युग्मम् ॥ अप्य० सा हरिणाक्षी सुमंगला खप्नदृष्टं हरि सिंहं बहु अमन्यत बहु मन्यते स्म । किलक्षणं हरिम् ? एतानि सर्वाणि १५हरिविशेषणानि । अतुच्छतया धनतया, पुच्छाघातकंपितभूत
लमपि पुच्छप्रहारेण कंपितपृथ्वीतलमपि । उदारदरीकोडक्रीडत्
क्ष्वेडाभयंकरमपि उदारदरीगुहा तस्याः क्रोडे उत्संगे क्रीडन्ती १४क्ष्वेडा सिंहनादस्तेन भयंकरमपि ॥ २८ ॥ सद्यो भिन्नेभकुंभोस्थव्यक्तमुक्तोपहारिणं, सद्यस्तल्कालं भिन्ना विदारिता इभा गजास्तेषां कुंभोत्था व्यक्ता प्रकटा मुक्ता मौक्तिकानि उपहारिणम् ढोकयन्तम् , सद्योभि०, पहारिणम् । रौद्रोऽपि हरिः मौक्तिक२२ दायकत्वात् बहुमान्यो जात इति भावः ॥ २९ ॥ युग्मम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org