SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २४३ सर्गः] टीकया सहितम् सुखदायिकं इति अमुना प्रकारेण वक्ष्यमाणं स्वमदर्शनमन्वभूत् अनुभवति स्म । किंलक्षणा सुमंगला ? पुण्यभूमी । किमिव ? उत्सवान्तरमिव यथा उत्सवेन उत्सवान्तरं अनुभूयते ॥ २३ ।। ३ प्रथमं सा लसदन्तदण्डमुच्छंडमुन्नतम् । भूरिभाराद्भुवो-भङ्गभीत्येव मृदुचारिणम् ॥ २४ ॥ गण्डशैलपरिस्पर्द्धिकुम्भं कर्पूरपाण्डुरम् । द्विरदं मदसौरभ्यलुभ्यद्भमरमैक्षत ॥ २५॥ युग्मम् ॥ प्रथ० सा सुमंगला प्रथमं द्विरदं गजेन्द्रं ऐक्षत दृष्टवती, किंलक्षणं गजेन्द्रम् ? एतानि सर्वाणि गजेन्द्रविशेषणानि ९ ज्ञेयानि । लसदन्तदण्डं उल्लसद्दन्तमुशलम्, उच्छंडं ऊर्तीकृतशुण्डादण्डम् , उन्नतं उच्चस्तरम् । उत्प्रेक्ष्यते-भूरि बहुभारात् भुवो भङ्गभीत्या पृथिव्या भङ्गभयेन मृदुचारिणमिव मन्दगमन- १२ मिव ॥ २४ ॥ गण्डशैलपरिस्पर्द्धिकुंभ पर्वतसत्कस्थूलोपलेन सह स्पर्द्धा कुर्वन् कुंभस्थलं यस्य तम् । कर्पूरपांडुरं कर्पूरवद्धवलम् । मदसौरभलुभ्यद्भमरं मदसौरभ्येण मदपरिमलेन लुभ्यन्तो १५ भ्रमरा यस्य तम् ॥ २५ ॥ युग्मम् ॥ भाग्यैः शकुनकामानामिव गर्जन्तमूर्जितम् । शुभ्रं पुण्यमिव प्राप्त, चतुश्चरणचारुताम् ॥ २६ ॥ १८ सिन्धुरोधक्षम रोधः स्यतं मृल्लवलीलया। सशृङ्गमिव कैलासं, ककुम॑तं ददर्श सा ॥ २७ ॥ युग्मम् ॥ भाग्यैः० सा सुमंगला कुकुतं वृषभं ददर्श, किंलक्षणं २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy