SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २४२ जैनकुमारसंभवं [सप्तमः दृग् निद्रया संकुचितदृष्टिः, सती वने अब्जिनी कमलिनी निद्राणकमला संकुचितकमला द्वे अपि मिथः परस्परं ३ सख्योचितं मैत्रीसदृशं आचरतुः चरतुः ॥ १९ ॥ आसतामपरे मौनं, भेजुराभरणान्यपि। असंचरतया तस्या, निद्राभङ्गमयादिव ॥ २० ॥ ६ . आस० अपरे आसतां दूरे सन्तु तस्याः सुमंगलाया आभरणान्यपि असंचरतया निःसञ्चलत्वेन मौनं भेजुः, उत्प्रेक्ष्यते-सुमंगलाया निद्राभङ्गभयादिव ॥ २०॥ ९ निद्रानिभृतकाया साऽनायासान्नाकियोषिताम् । लोचनेलेहसागलावण्या समजायत ॥ २१ ॥ निद्रा० सुमंगला निद्रानिभृतकाया निद्रया निश्चलदेहा १२ सती नाकियोषितां देवांगनानां लोचनैर्लेह्य आखाद्य सर्वांगलावण्या समजायत ॥ २१॥ निर्वातस्तिमितं पद्ममिवामुष्या मुखं सुखम् । १५ न्यपीयताप्सरोनेत्रभृङ्गैलावण्यसन्मधु ॥ २२ ॥ निर्वा० अमुष्याः सुमंगलायाः लावण्यसन्मधु लावण्यमेव __ सत् विद्यमानं मधु मकरन्दो यत्र एवंविधं मुखं यथा भवति १० तथा अप्सरोनेत्र गैर्देवांगनासत्कलोचनभ्रमरैय॑पीयत पीतम् , उत्प्रेक्ष्यते-निर्वातस्तिमितं वातरहितं निश्चलं पद्ममिव ॥ २२ ॥ आप्तनिद्रासुखा सौख्यदायीति स्वमदर्शनम् । अन्वभूत्पुण्यभूमी सोत्सवान्तरमिवोत्सवे ॥ २३ ॥ २२ आप्त० सा सुमंगला आप्त प्राप्तनिद्रासुखा सती सौख्यदायि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy