SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ सर्ग:] टीकया सहितम् २४१ विसृज्य सा परप्रेमालापपात्रीकृताः सखीः । निद्रां सुखार्थामेकान्तसखी संगंतुमैहत ॥१६॥ विसृ० सा सुमंगला परप्रेमालापपात्रीकृताः, परा प्रेमा-३ लापस्य प्रकृष्टा(या) स्नेहवार्ताया(तस्याः ?) पात्रीभूता एवंविधाः सखीः विसृज्य निद्रां संगंतुं निद्रासङ्गमं ऐहत इच्छति स्म । किंलक्षणां निद्राम् ? सुखार्थी सुखकारिणी, पुनः किंविशिष्टाम् ? ६ एकान्तसखीम् ॥ १६॥ तस्याः सुषुप्सया जोषजुषोऽजायत शर्मणे । मोहो निद्रानिमित्तः स्यादोषोऽप्यवसरे गुणः ॥१७॥९ तस्याः० सुमंगलायाः निद्रानिमित्तो मोहः शर्मणे सौख्याय अजायत जातः, किंलक्षणायाः सुमंगलायाः सुषुप्सया सुखशयनवांछया, जोषजुषो मौनं सेविन्या दोषोऽप्यवसरे गुणः १२ स्यात् ॥ १७ ॥ स्रोतांसि निवृतीभूय, नृपस्येव नियोगिनः। निशि निर्वत्रिरे तस्याः, स्वस्वव्यापारसंवृतेः॥१८॥१५ स्रोतां० तस्याः सुमंगलायाः स्रोतांसि इन्द्रियाणि खखव्यापारसंवृतेः निवृतीभूय निश्चलीभूय निर्वत्रिरे निवृति प्रापुः, के इव ? नियोगिनो व्यापारिण इव, यथा नृपस्य राज्ञो नियो- १८ गिनः वखव्यापारसंवृतेनिवृति समाधि प्राप्नुवन्ति ॥ १८ ॥ तदा निद्रामुद्रितहम् भवने सा वनेऽब्जिनी। निद्राणकमला सख्योचितमाचरतुर्मिथः ॥ १९ ॥ तदा० तस्मिन्नवसरे सा सुमंगला भवने गृहे निद्रामुद्रित-२२ जै० कु० १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy