________________
तमः
-
२४०
टीकया सहितम् [सप्तमः श्वेतोत्तरच्छदं तत्र, दोलातल्पमुपेयुषी।
हंसीं गङ्गातरंगात्तरंगामभिवभूव सा ॥ १२ ॥ ३ श्वेतो० सा सुमंगला तत्र तस्मिन् वासे श्वेतोत्तरच्छदं श्वेतउत्तरपटयुक्तं, दोलातल्पं उपेयुषी दोलायमानशय्यां प्राप्तवती सती हंसीं अभिबभूव पराभवति स्म । किंलक्षणां ६ हंसीम् ? गङ्गातरंगेषु गङ्गाकल्लोलेषु आत्तगृहीतरंगाम् ॥ १२ ॥
दक्षिणं तमुरीचक्रे, विवाहे भगवानिति ।
वामा वाममुपष्टभ्य, पाणिं तसिन्नशेत सा ॥ १३ ॥ ___ दक्षि० सा वामा सुमंगला तस्मिन् शयनीये इति कारणात् वाम पाणिं उपष्टभ्य अशेत स्वपिति स्म । इतीति किं ? विवाहे भगवान् तं दक्षिणपाणिं हस्तं उरीचक्रे अङ्गीकृतवान् ॥ १३ ॥ १२ पूर्वमप्सरसामंके, स्थित्वा तत्पादपंकजे ।
पश्चादवाप्तां दिव्यतूलीमौलिवतंसताम् ॥ १४ ॥
पूर्व० पूर्व प्रथमं अप्सरसां अङ्के देवांगनानामुत्संगे स्थित्वा १५ पश्चात् तत्पादपंकजे तस्याः सुमंगलायाश्चरणकमलौ दिव्यतूलीमौलिवतंसतां हंसतूल्यामस्तके मुकुटत्वं अवाप्तां प्राप्तौ ॥ १४ ॥
दीपाः सस्नेहपटवो,ऽभितस्तां परिवत्रिरे । १४ ध्वान्तारातिभयं भेत्तुं, जाग्रतो यामिका इव ॥१५॥
दीपाः० दीपा अभितः समंततः तां सुमंगलां परिवत्रिरे, परिवृण्वन्ति स्म । किंलक्षणा दीपाः ? सस्नेहपटवः स्नेहसहिताः पटवश्व पटिष्ठाः । उत्प्रेक्ष्यते-ध्वान्तारातिभयं भेत्तुं अन्धकार२२ शत्रुभयं छेत्तुं जाग्रतो यामिकाः, प्राहरिका इव ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org