SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं २३९ व्यालं० जनैलोकैर्यत् गृहं पुष्पास्त्रस्य कामस्य शस्त्रागारधिया आयुधशालाबुद्धया अदृश्यत । किंलक्षणं गृहम् ? व्यालंबिमालं लंबमानस्रक् । पुनः किंलक्षणम् ? समंततः सर्वतः आस्तीर्ण-३ कुसुमालि प्रसरितपुष्पश्रेणि ॥ ८॥ कौतुकी स्त्रीजनो यत्र, पुरःस्फाटिकभित्तिषु । स्पष्टमाचष्ट पृष्ठस्थचेष्टितान्यनुविम्बनैः ॥९॥ ६ कौतु० यत्रावासे कौतुकी जनः पुरःस्फाटिकभित्तिषु अग्रे स्फटिकमणिसत्कभित्तिमध्ये अनुबिंबनैः प्रतिबिंबनैः पृष्ठस्थचेष्टितानि स्फुटं प्रकटं आचष्ट कथितवान् ॥ ९॥ लतागुल्मोत्थितो यत्राहरजालावनागतः । मुक्ताधिया मरुचौरः, खेदविन्दून मृगीदृशाम् ॥१०॥ लता० यत्र वासे लतागुल्मोत्थितो वल्लिसत्कगुल्मसमुत्पन्नो १२ मरुच्चौरः, मृगीदृशां स्त्रीणां खेदबिन्दून् मुक्ताधियाऽहरत् हृतवान् । किंलक्षणो मरुच्चौरः ? जालाध्वनागतः जालमार्गेण प्रविष्टः ॥ १०॥ वीक्ष्य यत्परितोऽध्यक्ष, वनं सर्वर्तुकं जनः । श्रद्धेयमागमोक्त्यैवाभिननन्द न नन्दनम् ॥ ११ ॥ वीक्ष्य० जनो लोको यत्परितो यस्यावासस्य समंततः १८ सर्वर्तुकं सर्वऋतुषु साधारणं अध्यक्षं प्रत्यक्षं वनं वीक्ष्य नन्दनं नंदनाख्यं वनं न अभिननन्द न प्रशशंस । किंविशिष्टं नंदनम् ? आगमोक्त्यैव श्रद्धेयं नतु प्रत्यक्षम् ॥ ११॥ २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy