SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३८ टीकया सहितम् [सप्तमः पुत्रिका रेजिरे शोभिताः । उत्प्रेक्ष्यते-देव्याः सुमंगलाया लीलां अध्येतुं पठितुं आगता देवांगना इव ॥ ४ ॥ ३ दह्यमानाः काकतुण्डा, यत्र धूमैर्विसृत्वरैः । स्वपंक्तिं वर्णगन्धाभ्यां, निन्युर्वन्तराण्यपि ॥ ५॥ दह्य० यत्रावासे काकतुंडाः कृष्णागरवो दह्यमानाः ६ उद्ग्राह्यमानाः संतः विसृत्वरैः प्रसरणशीलैधूमैदान्तिराण्यपि वर्णगन्धाभ्यां वर्णेन गन्धेन च खपंक्तिं निन्युगृहीतवन्तः ॥५॥ उत्पित्सव इवोत्पक्षा, यत्र कृत्रिमपत्रिणः । ९ आरेभिरे लोभयितुं, बालाभिश्चारुचूणिभिः ॥६॥ उत्पि० यत्रावासे कृत्रिमपक्षिणः बालाभिर्बालिकाभिश्चारुचूणिभिर्मनोज्ञभक्ष्यैः लोभयितुमारेभिरे । उत्प्रेक्ष्यते--उत्पक्षा १२ऊर्वीकृतपक्षाः सन्तः उत्पित्सव इव उत्पतितुंकामा इव ॥ ६॥ __यन्मणिक्षोणिसंक्रान्तमिन्दं कन्दुकशङ्कया। १५ आदित्सवो भगनखा, न बालाः कमजीहसन् ॥७॥ यन्म० बालाः कं पुरुषं न अजीहसन् न हासयन्ति स्म ? अपि तु हासयन्ति स्मैव, किंलक्षणा बालाः ? यन्मणिक्षोणिसंक्रान्तं १८ इन्दुं यस्यावासस्य रत्नपृथ्वीप्रतिबिंबितं इन्दं चन्द्रं कन्दुकशंकया आदित्सवो ग्रहीतुमिच्छवः, पुनः किंलक्षणाः ? भग्ननखाः ॥ ७॥ व्यालंबिमालमास्तीर्णकुसुमालि समन्ततः । २२ यददृश्यत पुष्पास्त्रशस्त्रागारधिया जनैः ॥८॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy