SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] जैनकुमारसंभवं अथ सप्तमः सर्गः ॥ अथ प्रथमनाथस्य, प्रिया तस्य सुमंगला । अध्युवास निजं वासभवनं यामिनीमुखे || १ || अथ० अथानन्तरं तस्य प्रथमनाथस्य श्रीयुगादिदेवस्य प्रिया सुमंगला यामिनीमुखे रात्रिमुखे निजं आत्मीयं वासभवनं आवासं अध्युवास उषिता ॥ १ ॥ यत्र ज्वलत्प्रदीपाणां प्रभाप्राग्भारभाषितम् । धृत्वा धूमशिखेत्याख्यांतरं दूरेऽगमत्तमः ॥ २ ॥ यत्र० यत्र यस्मिन् वासे तमोऽन्धकारं दूरेऽगमत् । किं ९ कृत्वा ? धूमशिखा इति आख्यान्तरं नामान्तरं धृत्वा । किंलक्षणं तमः ? ज्वलत्प्रदीपाणां प्रभाप्राग्भारेण भाषितं प्रभासमूहेन त्रासितम् ॥ २ ॥ २३७ 9 Jain Education International यत्र नीलामलोलोचामुक्तामुक्ताफलस्रजः । बभुर्नभस्तलाधारतारकालक्षकक्षया || ३ || यत्र यत्रावासे मुक्ताफलस्रजो नभस्तलाघारतारकाल - १५ लक्षाणां कक्षा सादृश्येन बभुः शोभिताः । किंलक्षणा मुक्ताफलस्रजः ? नीलामलोल्लोचामुक्ता नीलेषु कृष्णवर्णेषु अमलेषु उल्लोचेषु आमुक्ता बद्धाः ॥ ३ ॥ १२. For Private & Personal Use Only सौवर्ण्यः पुत्रिका यत्र, रत्नस्तम्भेषु रेजिरे । अध्येतुमागता लीलां, देव्या देवांगना इव ॥ ४॥ सौव ० यत्र वासे रत्नस्तंभेषु सौवर्ण्यः पुत्रिकाः सौवर्णमय्यः २१ 14 www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy