SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ टीकया सहितम् [षष्ठः दिनाः सुकृतसूरसमुत्थधृतिप्रभापरिचिताः, सुकृतं पुण्यमेव सूरः सूर्यः ततः समुत्था समुत्पन्ना धृतिः समाधिरेव प्रभा कान्तिः ३ तया परिचिताः सेविताः । किंविशिष्टस्य भगवतः ? इति ऋतूचितखेलनकैः न कैः हृतहृदः, इति पूर्वोक्तप्रकारैः षड्ऋतुयोग्यक्रीडनैः, ६ "वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते" ॥ १॥ इत्यादिभिश्च कैः कैर्न हृतहृदः, अपि तु सर्वैरपि हृतहृदः ॥७३॥ कौमारकेलिकलनाभिरमुष्य पूर्व लक्षाः पडेकलवतां नयतः सुखाभिः । आद्या प्रिया गरभमेणदृशामभीष्टं, भर्तुः प्रसादमविनश्वरमाससाद ॥ ७४ ॥ कौमा० अमुष्य भगवतः आद्या प्रिया सुमंगला गरभं गर्भ आससाद प्राप्ता, 'गर्भस्तु गरभो भ्रूणो' इति पाठः । किं१५ लक्षणं गरभं ? एणदृशां स्त्रीणां अभीष्टम् । पुनः किंलक्षणम् ? भर्तुः श्रीऋषभदेवस्य अविनश्वरं प्रसादम् । किंकुर्वतो भगवतः? कौमारकेलिकलनाभिः षट्पूर्वलक्षा एकलवतां षट्त्रिं. १० शनिमेषैरेको लव' उच्यते, तद्भावं नयतः । किंविशिष्टाभिः कौमारकेलिकलनाभिः ? सुखाभिः सुखहेतुभिः ॥ ७४ ॥ इति श्रीअंचलगच्छे कविचक्रवर्तिश्रीजयशेखरसूरिविरचितश्रीजैनकुमारसंभवस्य तच्छिष्यश्रीधर्मशेखरसूरिविरचितायां टीकायां श्रीमाणिक्यसुन्दरसूरिशोधितायां षष्ठ सर्गव्याख्या समाप्ता ॥ ६॥ १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy