SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं २३१ निमालयन् सन् तां दृशं - अदात् या दृग् धनाढ्यैरपि श्रीमद्भिरपि दुर्लभा स्यात् ॥ ६१ ॥ लोकोपकाराय स लोकनाथः, कृत्वा क्षमाभृद्भवसिन्धुरोधम् । तदा, तदभ्यासवशाद्विधत्ते द्यापि क्षमाभृद्भवसिंधुरोधम् ॥ ६२॥ ६ लोको० स लोकनाथः तदा तस्मिन्नवसरे लोकोपकाराय क्षमाभृद्भवसिन्धुरोधं क्षमाभृद्भवानां पर्वतोत्पन्नानां सिन्धूनां नदीनां रोधं बन्धं कृत्वा तदभ्यासवशात् अद्यापि क्षमाभृद्भव-९ सिन्धुरोधं क्षमाभृतां साधूनां भवसिन्धोः संसारसमुद्रस्य रोधं विधत्ते ॥ ६२ ॥ प्रसादयंत्यांबु पयोजपुंज, १२ प्रबोधयन्त्या विधुमिद्धयन्त्या । अस्याभिषेकार्चनवक्त्रदास्या, धिकारतोऽसौ शरदोपतस्थे ॥ ६३॥ प्रसा० असौ भगवान् शरदोपतस्थे आश्रितः । किं कुर्वत्या शरदा ? अंबु प्रसादयंत्या अंबु पानीयं प्रसन्नं कुर्वत्या । पुनः किंकुर्वत्या ? पयोजपुञ्ज प्रबोधयंत्या कमलसमूहं विकासयन्त्या । १८ पुनः किंकुर्वत्या ? विधुं चन्द्रं इद्धयंत्या समृद्धं कुर्वत्या । कस्मात् ? अस्य भगवतोऽभिषेकार्चनवक्रदास्याधिकारतः, अभिषेकः सात्रं अर्चनं पूजनं वक्रस्य मुखस्य दास्ये तेषु अंबु. प्रमुखानां अधिकारात् ।। ६३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy