SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २५८ . टीका सहितम् २२८ टीकया सहितम् [षष्ठः पूर्व परागस्थितितः प्ररूढाम् , परागः किंजल्कं परं प्रकृष्टं आगः अपराधो वा तस्य स्थितेः प्ररूढां उद्गताम् । अर्थव३ शाद्विभक्तिपरिणामः ॥ ५४ ॥ निविश्य गुल्मानि महालतानां, विश्रम्य पत्रर्धिमिलारुहाणाम् । मंक्त्वा सदारः सरसां जलानि, कृतार्थयामास कृती वने सः ॥ ५५॥ निवि० स कृती विद्वान् भगवान् सदारः सकलत्रः सन् ९ वनमध्ये महालतानां महावल्लीनां गुल्मानि निविश्य उपविश्य कृतार्थयामास । एतत् क्रियापदं सर्वत्र संबध्यते । इलारुहाणां वृक्षाणां पत्रधि पत्रसंपदं विश्रम्य । सरसां सरोवराणां जलानि १२ मंक्त्वा स्नात्वा ॥ ५५॥ विभोळतायंत विवाहकाले, ___ यत्पल्लवैस्तोरणमंगलानि । चूतस्य तस्याविकलां फलधि___ मपप्रथत्साधु ततस्तपर्तुः ॥५६॥ विभो० यत् पल्लवैर्यस्य चूतस्य पल्लवैर्विभोर्विवाहकाले १८ तोरणमङ्गलानि व्यतायन्त व्यस्तार्यन्त, ततस्ततोऽनन्तरं तपतु स्तस्य चूतस्य अविकलां संपूर्णां फलर्द्धि साधु युक्तं अपप्रथत् विस्तारयति स्म ॥ ५६ ॥ दोषोन्नतिर्नाऽस्य तमोमयीष्टा, दृष्टेति तामेष शनैः पिपेष । २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy