SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सर्गः ] जैनकुमारसंभवं शैत्यं सरस्यां मृदुतां लतायां, सौरभ्यमब्जे ललनैः प्रकाश्य । आनन्दयन्निद्यदिगुद्भवोऽपि, देवं समेतत्रिगुणः समीरः ॥ ५३ ॥ शैत्य • निंद्यदिगुद्भवोऽपि निंद्या दिग् दक्षिणा तस्या उद्भवतीति निंद्यदिगुद्भवः, समीरो वायुर्देवं श्री ऋषभदेवं आनन्दयत् । ६ किंलक्षणः समीरः ? समेतत्रिगुणः मिलितास्त्रयो गुणा यस्य सः । हीन कुलोत्पन्नोऽपि गुणैर्मान्यः स्यात् । वायोस्त्रयो गुणाः शीतो मन्दः सुरभिश्च । ललनैः प्रकाश्य च इति त्रिष्वपि स्थानेषु ९ संबध्यते । किं कृत्वा ? सरस्यां सरोवरे ललनैः खेलनैः शैत्यं शीतलत्वं प्रकाश्य प्रादुःकृत्य, लतायां वल्लयां ललनैर्मृदुतां सकोमलत्वम्, अब्जे कमले ललनैः खेलनैः सौरभ्यं १२ परिमलबहुलत्वम् ॥ ५३ ॥ I वल्ली विलोला मधुपानुषङ्ग, वितन्वती सत्तरुणाश्रितास्य । पुरा परागस्थितितः प्ररूढा, पुपोष योषित्सुचलत्वबुद्धिम् ॥ ५४ ॥ २२७ Jain Education International वल्ली ० वल्ली, अस्य भगवतः श्री ऋषभदेवस्य योषित्सु स्त्रीषु १८ चलत्वबुद्धिं पुपोष । किंलक्षणा वल्ली ? विलोला चंचला । पुनः 1 किं कुर्वती ! मधुपानुषंगं वितन्वती, मधुपा भ्रमरा मद्यपा वा तेषां संसर्गं कुर्वती । पुनः किं० ? सत्तरुणाश्रिता प्रशस्यवृक्षेणाश्रिता, अथवा सत्तरुणं प्रशस्ययुवानं आश्रिता । पुनः किंल० पुरा २२ For Private & Personal Use Only १५ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy