SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२६ टीकया सहितम् [षष्ठः वा उच्चावचा विषमां खरुचिं आत्मीयप्रभा खाभिलाषां वा किं तनोति अपि, नैव ॥ ५० ॥ ऋतूचितं पंचसु गोचरेषु, ___ यदा यदाशंसि जिनेन वस्तु । तदिगिताकूतविदोपनिन्ये, तदैव दूरादपि वासवेन ॥५१॥ ऋतू० जिनेन श्रीऋषभेण पञ्चसु गोचरेषु विषयेषु यदा यस्मिन्नवसरे यत् ऋतूचितं षड्ऋतुयोग्यं वस्तु आशंसि ९वाञ्छितं वासवेन इन्द्रेण तद्वस्तु दूरादपि उपनिन्ये ढौकितम् । किंलक्षणेन वासवेन ? तदिगिताकूतविदा । तस्य भगवतः इङ्गितं चेष्टितं आकूतं अभिप्रायं च वेत्तीति इंगिताकूतवित् तेन, १२ तदिगिताकूतविदा ॥५१॥ कदापि नाथं विजिहीर्घमन्त वणं विबुध्येव समं वधूभ्याम् । पत्रैश्च पुष्पैश्च तरूनशेषा विभूषयामास ऋतुर्वसन्तः ॥ ५२॥ कदा० ऋतुर्वसंतः पत्रैश्च पुनः पुष्पैरशेषान् तरून् १८ समस्तवृक्षान् विभूषयामास अलंकृतवान् । किं कृत्वा ? उत्प्रेक्षते-नाथं श्रीऋषभदेवं कदापि अन्तर्वणं वनस्यान्तर्मध्ये वधूभ्यां सुमंगलासुनंदाभ्यां समं विजिहीर्षु क्रीडाकर्तुमि च्छुर्विबुध्येव ज्ञात्वेव अन्तर्वणमित्यत्र 'निष्प्राग्रेऽन्त' रित्यादि२२ सूत्रेण (सि० २।३।६६) नस्य णत्वं ज्ञेयम् ।। ५२ ।। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy