SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं २२५ लजिते, किं कुर्वत्यौ ? आत्मोचितां आलिं सखीं अनाप्तवत्यौ । अप्राप्तेः । किंलक्षणया शच्या ? सुरालयखामिनिबद्धरुच्या, सुरालयो देवलोको मदिरागृहं वा तस्य खामिनिबद्धरुच्या ३ बद्धाऽभिलाषया ॥ ४८॥ तयोरहपूर्विकया निदेशं, विधिसमानासु गताभिमानम् । खगंगताखप्यमरांगनासु, ययौ न जातु प्रशमं विवादः ॥ ४९ ॥ तयो० तयोः सुमंगलासुनन्दयोर्निदेशमादेशमहंपूर्विकया ९ अहमहमिकया अमरांगनासु देवांगनासु गताभिमानं निरहंकार यथा भवति तथा विधिसमानासु कर्तुमिच्छन्तीषु वर्गगताखपि जातु कदाचिदपि विवादः प्रशमं उपशान्तिं न १२ ययौ ॥ १९॥ उपाचरद् द्वे अपि तुल्यबुद्धया, प्रभुः प्रभापास्ततमःसमूहः । उच्चावचां न स्वरुचिं तनोति, भावान्निलीनालिषु पद्मिनीषु ॥५०॥ उपा० प्रभुः श्रीऋषभस्ते द्वे अपि कलत्रे तुल्यबुद्धया १८ सदृशभावेन उपाचरत्, आसेविष्ट । किंलक्षणः प्रभुः ! प्रभापास्ततमःसमूहः प्रभया निराकृतांधकारपटलः । भाखान् सूर्यः निलीनालिषु पद्मिनीषु निलीना अलयो भ्रमरा अलयः सख्यो वा यत्र तासु एवंविधासु पद्मिनीषु कमलिनीषु स्त्रीषु २२ जै० कु. १५ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy