SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ .सर्गः] टीकया सहितम् २२३ रुचिं अभिलाषं तेने विस्तारयामास । वसन्तलक्ष्मी दक्षिणस्या दिशः अहिकान्ते पवने रुचिं विस्तारयति । किं कुर्वती सुमंगला वसंतलक्ष्मीश्व ? सुमनसः समूहं सुमनसामुत्तमानां पुष्पाणां च ३ समूहं उल्लासयन्ती । पुनः किंल० सुमंगला ? सदालिप्रियता-- मुपेता सदा सर्वदा आलयः सख्यः, पक्षे अलयो भ्रमरास्तत्र प्रियत्वं गता । पुनः किं० ? सत्परपुष्टघोषा सत्सु साधुषु परः ६ प्रकृष्टः पुष्टो घोषः प्रसिद्धिरूपो यस्याः, पक्षे सत् विद्यमानः परपुष्टानां कोकिलानां घोषो यस्यां सा० ॥ ४४ ॥ संयोज्य दोषोच्छ्रयमल्पतायां, शुचिप्रभां प्रत्यहमेधयन्ती । तारं तपः श्रीरिव सातिपट्वी, जाड्याधिकत्वं जगतो न सेहे ॥ ४५ ॥ १२ सयो० सा सुमंगला तारं अत्यर्थं तपःश्री ग्रीष्मलक्ष्मी ज्येष्ठाषाढसत्कऋतुरिव जगतो विश्वस्य जाड्याधिकत्वं मूर्खत्वं जलाधिकत्वं वा न सेहे । किं कुर्वती ? दोषोच्छ्रयं दोषाणां १५ दूषणानां पक्षे दोषा रात्रिस्तस्या उच्छ्यं विस्तारं अल्पतायां संयोज्य, प्रत्यहं निरंतरं शुचिप्रभां शुचिं निर्मलां प्रभां, पक्षे शुचेः सूर्यस्य प्रभां राधयन्ती वर्धयन्ती । पुनः किंलक्षणा १८ सुमंगला ? अतिपट्टी विदुषी, पक्षे अतिशयेन पट्वी तीव्रा ॥४५॥ परांतरिक्षोदकनिष्कलंका, नाना सुनंदा नयनिष्कलंका । २१ तसै गुणश्रेणिभिरद्वितीया, प्रमोदपूरं व्यतरद् द्वितीया ॥ ४६ ॥ २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy