________________
सर्गः] टीकया सहितम्
२२१ पुण्यप्रकाशिका आशा यस्याः सा; पक्षे पुण्याः पवित्राः प्रकाशा प्रकटाः काशा यस्यां सा ॥ ४१॥
सत्पावकार्चिःप्रणिधानदत्ता
दरा कलाकेलिबलं दधाना । श्रियं विशालक्षणदा हिमतॊः,
शिश्राय सत्यागतशीतलास्या ॥ ४२ ॥ ६ सत्पा० सा सुमंगला हिमोंः मार्गशीर्षपौषसंबन्धिनी श्रियं शिश्राय । किंलक्षणा सुमंगला? हिमतुश्चात्राप्यर्थवशाद्विभक्तिपरिणामः, सत्पावकार्चिःप्रणिधानदत्तादरा सत् प्रधानं ९ पावकं पावित्र्यकारकं अर्चिस्तेजः परब्रह्मरूपं तत्र प्रणिधानं ध्यानं येषान्ते सत्पावकाप्रिणिधानास्तेभ्यो दत्त आदरो यया सा० । पक्षे सत् प्रधानं पावकस्य अग्नेः अर्चिस्तेजस्तत् प्रणिधाने १२ दत्तादरा । पुनः किं० ? कलाकेलिबलं दधाना कलासु केलिबलं क्रीडाबलं दधाना, पक्षे कलाकेले: कंदर्पस्य बलं दधातीति कला० । 'कामं निकामं सेवेत शीतकाले' इति वचनात् , १५ पुनः किं० ? विशालक्षणदा विशालं विस्तीर्ण क्षणं उत्सवं ददातीति, पक्षे विशाला क्षणदा रात्रिर्यस्यां सा । पुनः किं० ? सत्यागतशीतलास्या त्यजनं त्यागः, सह त्यागेन वर्तते इति १८ सत्याग एवंविधस्तकारो यत्र । एतावता रहितः शीतलः शब्दः शील इति स्यात् , तस्मिन् शीले आस्या निवेशो यस्याः सा सत्यागतशीतलास्या शीले निश्चला इत्यर्थः, पक्षे सत्येन आगतस्य शीतलस्य आस्य(स्या ?) यस्यां सा ॥ ४२ ॥ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org