________________
२२०
जैनकुमारसंभवं
[षष्ठः
कदंबवृक्षा यया, तां घनागम० । पुनः किं कुर्वती ? सारखतं रसं उद्रिंती प्रकटयन्ती सरस्वत्या वाण्या संबन्धितं पक्षे ३ नद्या वा रसं उद्विरन्ती प्रकटयन्ती । पुनः किम् ? रजोत्र पापत्र रेणुव्रजं वा नती क्षयं नयन्ती । किंलक्षणा सुमंगला ? मंजुलतोपनीतच्छाया मंजुलता मनोज्ञत्वं तया उपनीता ६ ढौकिता च्छाया कान्तिर्यस्याः सा, पक्षे मंजवो मनोज्ञा लतावल्लयस्ताभिरुपनीता च्छाया यस्याः सा मंजुलतोपनीतच्छाया ॥ ४० ॥ ९ सेरास्यपद्मा स्फुटवृत्तशालि
क्षेत्रा नदद्धंसकचारुचर्या । याऽपास्तपंका विललास पुष्प
प्रकाशकाशा शरदंगिनीव ॥४१॥ स्मेरा० सा सुमंगला अङ्गिनी मूर्तिमती शरदिव अश्वयुक् कार्तिकसत्कस्तुवद्विललास । किंलक्षणा सुमंगला शरद् वा ? १५ स्मेरास्यपद्मा मेरं विकखरं आस्यपद्मं मुखकमलं यस्याः, पक्षे स्मेरकमला । पुनः किंविशिष्टा ? स्फुटवृत्तशालिक्षेत्रा स्फुटं
प्रकटं औदार्यधैर्यगांभीर्यमाधुर्यादिवृत्तेन चरित्रेण शालि१८ शोभमानं क्षेत्रं शरीरं यस्याः सा स्फुटवृत्तशालिक्षेत्रा; पक्षे
स्फुटानि प्रकटानि वृत्तानि निष्पन्नानि शालिक्षेत्राणि यत्र सा स्फुटवृत्तशालिक्षेत्रा । पुनः किं ? नदद्धंसक चारुचर्या नदयां २१ शब्दायमानाभ्यां हंसकाभ्यां चारुमनोज्ञा चर्या गमनं यस्याः,
पक्षे नदतां हंसकानां चारुचर्या यत्र । पुनः किं० ? अपास्तपंका २३ निराकृतपापा पक्षे शोषितकर्दमा । पुनः किं० ? पुण्यप्रकाशकाशा
१२
प्रकार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org