________________
२१९
सर्गः] टीकया सहितम् भवने उवास वसति स्म । तु पुनः, तैस्तैः सुरूपा सुभगा सुवेषा : सुरतप्रवीणा सुनेत्रा सुरम्या विभागिनी विचक्षणा प्रियभाषिणी प्रसन्नमुखी प्रभृति नायिकानां गुणैर्विश्वभर्तुः श्रीऋषभदेवस्य हृदि ३ उवास । किंलक्षणे वासौकसि विश्वभर्तुर्वा हृदि ? उदारवेदिनि उदारा देदयो वरंडिका यत्र तत् उदारचेदि तस्मिन् उदारवेदिनि, पक्षे उत्कृष्टज्ञानिनि । पुनः किंलक्षणे वासौकसि ? उरु-६ मानभित्तौ उरुमाना गुरुप्रमाणा भित्तयो यत्र तत्र उरुमानभित्तौ, . पक्षे उर्वी मानस्य गर्वस्य भित्तिः क्षयो यस्मात् तस्मिन् उस्मानभित्तौ । अत्र भाषितपुंस्कं पुंवद्वेति पुंलिङ्गत्वेऽनुगगमानाऽभूत् ।९ पुनः किं० ? सद्वारशोभाकरणोत्तरंगे सत् द्वारस्य शोभाकरण उत्तरंगो यत्र तस्मिन् सद्वार० । पक्षे सतां वारस्य समूहस्य तत्प्रशस्य वा शोभायाः करणे करणेन वा उत्तरंगे उत्क-१२ ल्लोले ॥ ३९ ॥
घनागमप्रीणितसत्कदम्बा, सारस्वतं सा रसमुद्रिंती ।
१५ रजोत्रज मंजुलतोपनीत,
च्छाया नती प्रावृषमन्वकार्षीत् ॥ ४०॥ घना० . सा देवी सुमंगला प्रावृषं श्रावणभाद्रपदजातं १८ वर्षाऋतुमन्वकार्षीत् अनुचकार । किंविशिष्टा सुमङ्गला ? किंविशिष्टं प्रावृषं वा ? धनागमप्रीणितसत्कदम्बा अर्थवशाद्वि- . भक्तिपरिणामः, धनागमप्रीणितसत्कदंबा घनैरागमैः शास्त्रैः २१ प्रीणिता सतां कदम्बाः समूहा यया सा घनागम० । पक्षे घनानां मेघानां आगमेन प्रीणिताः सन्तः प्रधानाः कदम्बाः२३. .
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org