SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सर्गः ] टीका सहितम् २१७ तुष्टेन मनाक् स्तोकतरा अस्मै कांचनाय यंगवर्णता यस्याः सुमंगलाया अङ्गवर्णेन सह सवर्णता सदृशताऽदायि दत्ता ॥ ३४ ॥ पद्मं न चन्द्रं प्रति सप्रसाद, तस्योदितः सोऽपि ददाति सादम् । यस्या मुखं द्वावपि तावलुप्त, श्रीमान् परस्फातिसहः क्क हन्त ॥ ३५ ॥ पद्मं० पद्मं कमलं चन्द्रं प्रति सप्रसादं सुप्रसन्नं न वर्तते । सोऽपि चन्द्र उदितः सन् तस्य पद्मस्य सादं खेदं ददाति । यस्याः सुमंगलाया मुखं कर्तृपदं तावपि द्वौ पद्मचन्द्रौ अलुप्त ९ लुम्पति । हन्त इति वितर्के । श्रीमान् परस्फातिसहः क्व वर्त्तते । श्रीलक्ष्मीः शोभा वा मुखे वसतीति श्रीमत्त्वम् ॥ ३५ ॥ I पूर्व रसं नीरसतां च पश्चाद्विवृतो वृद्धिमतो जलौघैः । जगज्जने तृप्यति तद्भिरेव स्थानेऽभवन्निष्फलजन्मतेक्षोः ॥ ३६ ॥ पूर्व० इक्षोरिक्षुयष्टेर्निः फलजन्मता स्थाने युक्तं अभवत् किं कुर्वत इक्षोः ? पूर्वं प्रथमं रसं पश्चान्नीरसतां विवृण्वतः प्रकटयतः । पुनः किं कुर्वतः : जलैौधैः पानीयसमूहैर्जड - १८ समूहैर्वा वृद्धिमतो वृद्धियुक्तस्य । क सति : तद्गिरैव तस्याः सुमंगलाया वाण्या एव जगज्जनैर्विश्वलोके तृप्यति सति तृप्तिं प्राप्नुवति सतीत्यर्थः ॥ ३६ ॥ यया खशीलेन ससौरभांग्या, श्रीखंडमन्तर्गडुतामनायि । Jain Education International १२ For Private & Personal Use Only १५ २१ २३ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy