SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ टीका सहितम् [ पञ्चमः c तद्यु हे कुलीने ! तत् तस्मात् कारणात् युवामपि भवत्यावपि स्त्रैण भूषण गुणार्जन हेतोः स्त्रीसमूह योग्यालंकार गुणोपार्जननिमित्तं ३ तथा प्रयतेथां उपक्रमं कुर्वाथां येन कारणेन समस्त स्त्रीगणः स्त्रीसमूहो वां युवयोः गुणविधौ गुरुबुद्धिं तदधाति .२०० धरति ॥ ८३ ॥ ६ बुद्धिं शुद्धामिति मतिमतामुत्तमेभ्यः शचीन्द्रा, भक्त्या वेशाद्विशदहृदयों प्राभृतीकृत्य नभ्यः । स्वागस्त्यागं चरणलुठनैः क्लृप्तवन्तौ दिवं ता ० द्राग्भेजाते चिरविरहतो त्याकुलस्थानपालाम् ८४ बुद्धि तौ शचीन्द्रौ मतिमतां बुद्धिमतामुत्तमभ्यस्तेभ्यो वधूवरेभ्य इति पूर्वोक्तां शुद्धां बुद्धिं भवत्य वेशात प्राभृती१२ कृत्योपदी कृत्य द्राक् शीघ्रं दिवं भेजाते, खर्गलोक तो । किंलक्षणौ शचीन्द्रौ ? विशदहृदयौ, पुनः किं कुवत्यौ (?) स्वागस्त्यागं आत्मीयापराधपरिहारं चरणलुठनैश्च नमस्कारैः १५ क्लृप्तवन्तौ । किंलक्षणां दिवम् ? चिरविरहतो त्याकुलस्थानपालाम् ॥ ८४ ॥ ▾ अन्येऽपीन्द्राः सकलभगवत्कार्यभारे धुरीणं, सौधर्मस्याधिपतिमधरमप्युत्तरं भावयन्तः । धन्यं मन्यास्त्रिभुवनगुरोर्दर्शनादेव देवैः, १८ २१ साकं नाकं निजनिजमयुर्निर्भरानन्दपूर्णाः ॥ ८५ ॥ अन्ये॰ अन्येऽपीन्द्रा ईशानेन्द्राद्या निर्भरानन्दः सन्तो देवैः साकं निजनिजं नाकं आत्मीयात्मीयं खर्लोकं अयुर्गताः । २३ किं कुर्वन्तः ? सकलभगवत्कार्यभारे धुरीणं भगवतः कार्याणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy