________________
सर्गः] जैनकुमारसंभवं
१९९ भवान्तरे राज्यादिसुखं वाञ्छन्ति, एतत् मिथ्या । कथमिति ? शीलरूपपर्वतात् पतनतः स्त्रीणां पापाऽपयशोदुःखादीन्येव स्युन तु सुखमिति भावः ॥ ८०॥ .
या प्रभूष्णुरपि भर्तरि दासी
भावमावहति सा खलु कान्ता । कोपपंककलुषा नृषु शेषा,
योषितः क्षतजशोषजलूकाः ॥ ८१ ॥ या० या स्त्री प्रभूष्णुरपि समर्थापि सति भर्तरि प्रियतमे दासीभावमावहति, खलु निश्चितं सा कान्ता पत्नी ज्ञेया । शेषा ९ योषितः कोपपंककलुषाः सत्यो नृषु पुरुषेषु क्षतजरुधिरशोषाय जलूका ज्ञेयाः ॥ ८१ ॥
रोषिताऽवगणिता निहताऽपि,
प्रेम नेतरि न मुंचति कुल्या । मेघ एव परितुष्यति धारा
दण्डधोरणिहतापि सुजातिः॥ ८२ ॥ १५ रोषि० कुल्या कुलीना स्त्री रोषिताऽवगणिता निहतापि नेतरि खामिनि प्रेम स्नेहं न मुंचति । यथा सुजातिः शोभना जातिः मालती कुलीना वा धारादण्डधोरणिहतापि मेघसत्कधारारूप-१० दंडश्रेणिहतापि सती मेघे एव परितुष्यति ॥ ८२ ॥
तधुवामपि तथा प्रयतेथां,
स्त्रैणभूषणगुणार्जनहेतोः। येन वां प्रतिदधाति समस्ता,
स्त्रीगणो गुणविधौ गुरुबुद्धिम् ॥ ५३॥ २३
- १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org