________________
सर्गः] जैनकुमारसंभवं १९७ श्रीः लक्ष्मीः स्यात् , उक्तं च-"अनुकूला, सदा तुष्टा दक्षा साध्वी विचक्षणा । एभिः पंचगुणयुक्ता श्रीरिव स्त्री न संशयः" ।। ७५ ॥
नेत्रपद्ममिह मीलति यस्या,
वीक्षिते परपुमाननचन्द्रे । श्रीगृहं सृजति पंकजिनीव,
तामिनः स्वकरसङ्गमबुद्धाम् ॥ ७६ ॥ नेत्र० यस्याः स्त्रियाः परपुमाननचन्द्रे परपुरुषमुखचन्द्रे वीक्षिते सति नेत्रपद्मं मीलति संकुचति । इनो भर्ता सूर्यो वा९ खकरसङ्गमबद्धां आत्मीयकरस्पर्शनविकसितां तां स्त्रियं पंकजिनीव कमलिनीवत् श्रीगृहं सृजति, आत्मीयगृहसत्कसर्वलक्ष्मीस्थानं करोतीति भावः ॥ ७६ ॥ मास तप्यत तपः परितक्षीत्,
मा तनूमतनुभिर्वतकष्टैः। इष्टसिद्धिमिह विन्दति योषि
चेन लुम्पति पतिव्रतमेकम् ॥ ७७॥ माम० तपः मा म तप्यत तनूं शरीरं अतनुभिर्बहुभिव्रतकष्टैमा परितक्षीत् मा कृशां कार्षीत् । योषित् स्त्री इह जगति १८ चेत् यदि एकं पतिव्रतं शीलं न लुम्पति तदा इष्टसिद्धिं विन्दति लभते ॥ ७७ ॥
उग्रदुर्ग्रहमभंगमयत्न
प्राप्यमाभरणमस्ति न शीलम् । २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org