SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १९६ टीकया सहितम् [पञ्चमः प्राप साऽपि वसति जनबाह्यां, दण्डसंघटनया दृढबद्धा ॥ ७३ ॥ ३ चाप० हे कुलीने ! हृदि इति मा म निधत्तं चित्ते इति मा म चिन्तयन्तम् । इतीति किम् ? पताका चापलेऽपि चपलत्वेऽपि सति, कुलमूर्ध्नि कुलं गृहं गोत्रं वा तस्य मूर्ध्नि मस्तके ६ तिष्ठति । सापि पताका दण्डसङ्घटनया दृढ बद्धा सती जनबाह्यां वसतिं वासं प्राप ।। ७३ ।। अस्ति संवननमात्मवशं चे दौचितीपरिचिता पतिभक्तिः। मूलमंत्रमणिभिर्मूगनेत्रा स्तद् भ्रमन्ति किमु विभ्रमभाजः॥ ७४ ॥ १२ अस्ति० हे कुलीने ! स्त्रीणां चेत् यदि औचितीपरिचिता औचित्यगुणयुक्ता पतिभक्तिरात्मवशं संवननं वशीकरणमस्ति, तत् तस्मात् कारणात् मृगनेत्राः स्त्रियो मूलमंत्रमणिभिः १५किमु किमर्थं विभ्रमभाजो भ्रमभाजो भ्रमन्ति ॥ ७४ ॥ भोजिते प्रियतमेऽहनि भुंक्ते, या च तत्र शयिते निशि शेते । १८ प्रातरुज्झति ततः शयनं प्राक्, __सैव तस्य सुतनुः सतनुः श्रीः॥ ७५ ॥ भोजि० या स्त्री प्रियतमे भत्तरि अहनि दिवसे भोजिते २१ सति भुंक्ते । च पुनः या तत्र प्रियतमे निशि रात्रौ शयिते सति शेते । प्रातः प्रभाते तत् प्रियतमात् प्राक् पूर्वं शयनं उज्झति २३ त्यजति । तस्य प्रियतमस्य सैव सुतनुः स्त्री सतनुः मूर्तिमती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy