SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं १९५ वर्तते, यत् स्वान्तं वामपि कामं अत्यर्थ शिशिक्षयिषु शिक्षयितुमिच्छु वर्तते ॥ ७० ॥ श्रोत्रयोर्गुरुगिरां श्रुतिरास्ये, सूनृतं हृदि पुनः पतिभक्तिः । दानमर्थिषु करे रमणीना मेष भूषणविधिविधिदत्तः॥ ७१॥ ६ श्रोत्र० रमणीनां स्त्रीणां एष भूषणविधिविधिदत्तो वर्तते, विधिना विधात्रा दत्तो विधिदत्तः । एष कः ? श्रोत्रयोः कर्णयोः गुरुगिरां श्रुतिगुरुवाणीनां श्रवणम् । आस्ये मुखे ९ सूनृतं सत्यवचः । पुनः । हृदि पतिभक्तिः । करे अर्थिषु याचकेषु दानम् ॥ ७१ ॥ सुभ्रवां सहजसिद्धमपास्यं, चापलं प्रसवसम विपत्तेः । येन कूलकठिनाश्मनिपाता द्वीचयोऽम्बुधिभुवोऽपि विशीर्णाः ॥ ७२ ॥ १५ सुश्रु० सुभ्रुवां स्त्रीणां चापलं चपलत्वं सहजसिद्धं अपास्यं त्याज्यं त्यजनयोग्यं वर्तते । किंलक्षणं चापलम् ? विपत्तेः विनाशस्य प्रसवसद्म जन्मस्थानम् । येन चापलेन कूलकठिनाश्म-१८ निपातात् , कूलं तटं तत्र ये कठिना अश्मानः पाषाणाः तत्र निपातात् पतनात् अम्बुधिभुवोऽपि समुद्रजाता अपि वीचयः कल्लोला विशीर्णा भग्नाः ॥ ७२ ॥ चापलेऽपि कुलमूर्ध्नि पताका, तिष्ठतीति हृदि मा म निधत्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy