________________
१९४
आलपत्कुलवधूसमयज्ञा, शच्यपि प्रथमनाथनवोढे ॥ ६८ ॥
३
प्राप्त कुलवधूसमयज्ञा कुलवधूनामाचारज्ञा शच्यपि इन्द्राण्यपि प्रथमनाथनवोढे श्रीयुगादिदेवकलत्रे, सुमंगला सुनन्दे आलपत् उवाच । क्क सति ? प्राप्तकालं प्राप्तावसरम् इति ६ पूर्वोक्तं वाक्यं उदित्वा घटयित्वा मोदभाजि हर्षभाजि सुरराजे इन्द्रे विरते निवृत्ते सति ॥ ६८ ॥ यस्य दास्यमपि दुर्लभमन्यैस्तत्प्रिये बत युवां यदभूतम् । भाग्यमेतदलमत्रभवत्योः,
१८
टीका सहितम्
कः प्रवक्तुमलमत्रभवत्योः ॥ ६९ ॥ यस्य ० हे कुलीने ! यस्य भगवतो दास्यमपि अन्यैः दुर्लभं वर्तते । बत इति वितर्के । युवां यत् तत्प्रिये तस्य स्वामिनो दयिते अभूतं जाते । एतत् अलं अत्यर्थ अत्रभवत्योः पूज्ययो१५ र्भवत्योः युवयोर्भाग्यं । अत्र जगति । कः पुमान् प्रवक्तुं प्रकर्षेण जल्पितुं अलं समर्थो भवेत् । अपि तु न कोऽपि ॥ ६९ ॥ देवदेवहृदि ये निविशेथे, ते युवां न भवथोऽन्यविनेये । स्वान्तमेव मम धृष्टधुरीणं,
२१.
[ पञ्चमः
यच्छशिक्षयिषु वामपि कामम् ॥ ७० ॥
देव० हे सुमंगलानन्दे युवां ये देवदेवहृदि देवदेवस्य श्रीयुगादीशस्य हृदये निविशेथे वसथः, ते युवां अन्यविनेये २३ अन्यशिक्षणीये न भवथः । मम खान्तमेव चित्तमेव धृष्टधुरीणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org