________________
सर्ग: ]
जैनकुमारसंभवं
१९३
▾
* स्पष्ट हे नाथ ? अदीनमनस्कः उदारहृदयः, एका दीनवात् एकम्मात् आदीनवात् दूषणात् स्पष्टनैकगुणं प्रकटानेकगुणं जनं न उज्झति, अनल्पगुणाढ्या अनल्पैर्बहुभिर्गुणैर्विन-३ दिभिस्तंतुभिवा, आढ्या समृद्धा चञ्चलाऽपि पताका कुलमूर्ध्नि कुलं आवामं गोत्रं वा तस्य मूर्ध्नि मस्तके (किं ? ) न धीयते अपि तु य एव ॥ ६४ ॥
मन्तु हे नाथ ! गुणज्ञाः पुरुषाः मन्तुमन्तमपि अपराधिनमपि पुरुषं भावविशुद्धं शुद्धमेव गणयन्ति । इहैष दृष्टन्तः, I हि निश्चितं इभ्यस्त्रैणकंठरसिकोऽपि इभ्या धनवन्तस्तेषां स्त्रैणं ९ स्त्रीसमूहस्तस्य कण्ठे रसिकोऽपि कण्ठासक्तोऽपि हारः अन्तमध्ये शुचिः पवित्रः सन् मान्य एव ॥ ६६ ॥ त्वं परां नृषु यथाञ्चसि कोटिं, स्त्रीविमे अपि तथा प्रथिते तत् । प्रेम्णि वीक्ष्य घनतां जनता वः, स्थैर्यमावहतु दंपतिधर्मे ॥ ६७ ॥ त्वं ० हे नाथ ? त्वं नृषु पुरुषेषु यथा परां कोटिं अग्र विभागं अञ्चसि प्राप्नोसि, तथा इमे अपि सुमंगला सुनन्दे स्त्रीषु प्रथिते विख्याते । तत् तस्मात् कारणात् जनता जनसमूहो वः युष्माकं १ प्रेम्णि स्नेहे घनतां दृढतां वीक्ष्य दंपतिधर्मे दयिता च पतिश्व दंपती तयोर्धर्मे स्थैर्यं आवहतु ॥ ६७ ॥ प्राप्तकालमिति वाक्यमुदित्वा, मोदभाजि विरते सुरराजे ।
* टीकेयं लेखकदाषादत्र पतिताऽपि यथास्थानं वाच्येत प्रार्थयति सम्पादकः ।
जे०
१० कु० १३
Jain Education International
.
For Private & Personal Use Only
ર
14
२२
www.jainelibrary.org