SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं १९१ १९१ अन्तरेण पुरुषं न हि नारी, तां विना न पुरुषोऽपि विभाति । पादपेन रुचिमंचति शाखा, शाखयैव सकलः किल सोऽपि ॥ ६१ ॥ अन्त० हे नाथ ! नारी स्त्री पुरुष अन्तरेण विना नहि भाति न शोभते, पुरुषोऽपि तां नारी विना न विभाति, शाखा ६ पादपेन वृक्षेण रुचिं शोभां अंचति प्राप्नोति, सोऽपि पादपोऽपि शाखयैव सकलः संपूर्णो वर्तते ॥ ६१ ॥ मुक्तिरिच्छति यदुज्झितदारं स्त्री स्त्रियं न हि सहेत स हेतुः। कामयन्त इतरे तु महेला युक्तमेव पुरुषं पुरुषार्थाः ॥ ६२ ॥ मुक्ति० मुक्तिमोक्षरूपः पदार्थः यत् उज्झितदारं त्यक्तकलत्रं पुरुषं इच्छति, स हेतुरयं ज्ञेयः, यत् स्त्री स्त्रियं न हि सहेत । इतरे धर्मार्थकामाः पुरुषार्था महेलायुक्तं स्त्रीयुक्तमेव पुरुष १५ कामयते ॥ ६२ ॥ योषितां रतिरलं न दुकूले, नापि हेनि न च सन्मणिजाले। १८ अन्तरङ्ग इह यः पतिरङ्गः, सोऽदसीय हृदि निश्चलकोशः ॥ ६३॥ योषि० हे नाथ ! योषितां स्त्रीणां अलं अत्यर्थ दुकूले पट्टदुकूले न रतिः, नापि हेम्नि सुवर्णे । च पुनः, सन्मणिजाले २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy