SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९० टीकया सहितम् [पञ्चमः इमे कृतमती विचक्षणे सुविनीते कुलकन्ये सुमंगलासुनन्दे भगवता आहते, (तयोः) प्रेम स्नेहो जातु कदाचिदपि न ३ श्लथनीयम् ॥ ५८॥ यः परोऽपि विभुमाश्रयतेऽसौ, तस्य पुण्यमनसः खलु पाल्यः। किं पुनः कुलवधूरवधूय, प्रेम पैतृकमुपान्तमुपेता ॥ ५९ ॥ यः० हे नाथ ? यः परोऽपि अन्योऽपि विभुं खामिनं ९ आश्रयते, खलु निश्चितं असौ पुमान् पुण्यमनसः, तस्य विभोः पाल्यः पालनीयः । किं पुनः ? कुलवधूः कुलवधूनां किमुच्यते, या पैतृकं प्रेम अवधूय पितृस्नेहं त्यक्त्वा उपान्तं १२ खामिसमीपं उपेता समेता ॥ ५९ ॥ ये द्विषत्सु सहना इह गेहे नर्दिनः प्रणयिनी प्रति चण्डाः । १५ ते भवन्तु पुरुषाश्चरितार्थाः, __ श्मश्रुणैव न तु पौरुषभंग्या ॥६॥ ये. हे नाथ ये पुरुषा इह जगति द्विषत्सु वैरिषु १८ सहनाः क्षमापरा वर्तन्ते । किंलक्षणा ये ? गेहेनर्दिनो गेहे शूराः । पुनः किंलक्षणाः ? प्रणयिनी प्रति चण्डाः कलत्रं प्रति रौद्राः । ते पुरुषाः श्मश्रुणैव कूर्चेनैव चरितार्थाः, सत्यार्थाः २९ भवन्तु । न तु पौरुषभझ्या न तु पराक्रमव्युत्पत्त्या । उक्तं च __पात्रे त्यागी गुणे रागी भोगी परिजनैः सह । शास्त्रे बोद्धा रणे २३ योद्धा, पुरुषः पञ्चलक्षणः' ॥१॥ हीनत्वात् तेषाम् ॥ ६०॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy