SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] जैनकुमारसंभवं १८९ कोऽपि । यस्य चतुष्के सभायामपि गन्तुं न शक्यते तस्य हितप्रकरणं हितचिन्ता कथं क्रियते ? द्वितीयेऽर्थे तस्य लक्षणाकरस्य तद्धितप्रकरणं तद्धितवृद्धिं को मनुते यस्य ३ चतुष्कस्य आद्यवृत्तेः कलनापि दुरापा दुःप्रापाऽस्तीति ॥ ५६ ॥ यन्महः समुपजीव्य जडोऽपि, स्यात्कलाभृदिति विश्रुतिपात्रम् । यन्नये विनयनं तव तस्य, द्योतनं द्युतिपतेस्तदधीश ! ॥ ५७ ॥ यन्म० हे नाथ ! यस्य तव महः समुपजीव्य जडोsपि ९ मूर्खोऽपि कलाभृदिति विश्रुतिपात्रं कलावान् इति विश्रुतिपात्रं ख्यातिस्थानं स्यात् । पक्षे यन्महः यस्य द्युतिपतेः सूर्यस्य महस्तेजः समुपजीव्य जडोऽपि चन्द्रः कलाभृत् स्यात् । १२ अमावास्यायां सूर्याचन्द्रमसौ सङ्गतः स्यातां, ततश्चन्द्रः सूर्यतेजः प्राप्य प्रतिपदि गोभिर्विलोक्यः स्यात्, द्वितीयायां मानुषैः । एवं कलाधर इति प्रसिद्धः स्यात् । तस्य तव नये न्यायविषये १५ यद्विनयनं शिक्षणं हे अधीश ! तत् द्युतिपतेः सूर्यस्य द्योतनं प्रकाशनं वर्तते ॥ ५७ ॥ वच्मि किञ्चन पुनः प्रभुभक्त्या, ये इमे ऋजु (कृत ? ) मती कुलकन्ये । आते भगवता सुविनीते, प्रेम जातु न तयोः श्लथनीयम् ॥ ५८ ॥ वच्मि० हे नाथ ! अहं पुनः किंचन प्रभुभक्त्या वच्मि, ये२२ Jain Education International १८ For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy