SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ टीकया सहितम् [पञ्चमः नेत्रमण्डलगलज्जलधारा धिष्ण्यबन्धुरिमधूर्वहदेहः। ३ तं शतक्रतुरथो कृतकृत्यः, स्वर्यियासुरभिवन्द्य जगाद ॥ ५५॥ नेत्र० अथो अथानन्तरं शतक्रतुरिन्द्रः कृतकृत्यः ६निष्पादितसर्वकार्यः सन् खर्यियासुः खर्गगमनमिच्छुः, तं भगवन्तमभिवन्द्य जगाद । स्थाने मुक्त्वा इत्यूचिवान् । किंलक्षणः इन्द्रः ? नेत्रमण्डलगलज्जलधाराधिष्ण्यबन्धुरिमधूर्वहदेहः, ९ नेत्रमंडलाद् गलज्जलं तेन धाराधिष्ण्यस्य धारागृहस्य बन्धुरिम्नो मनोज्ञत्वस्य धूर्वहो भारवाहो देहो यस्य स नेत्रमंडलगलजलधाराधिष्ण्यबन्धुरिमधूर्वहदेहः ॥ ५५ ॥ रूपसिद्धिमपि वर्णयितुं ते, लक्षणाकर ! न वाक्पतिरीशः। यचतुष्ककलनाऽपि दुरापा, १५ तद्धि तत्प्रकरणं मनुते कः ॥५६॥ ___ रूप० हे लक्षणाकर ! भृङ्गारचामरयुगध्वजयुग्मशङ्खमंजीरनीरधिसरित्पुरपुष्करिण्य इत्याद्याष्टोत्तरसहस्रलक्षणानामाकरो यः, १८ पक्षे लक्षणानां व्याकरणानां आकरस्तस्य संबोधनम् । वाक् पतिबृहस्पतिः। ते तव रूपसिद्धिमपि रूपं शरीरसत्कं तस्य सिद्धिः, पक्षे रूपसिद्धिः तामपि वर्णयितुं न ईशो न समर्थः । २१ यच्चतुष्ककलना पि दुरापा, यस्य भगवतः चतुष्कावसरः सभाव सरः तस्य कलनापि दुःप्रापा वर्तते । तद्धितप्रकरणं तस्य २३ भगवतो हितप्रकरणं तदा को मनुते को जानाति, अपि तु न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy