________________
सर्गः] जैनकुमारसंभवं
१८७ बहु मेने । कोऽर्थः ? इन्द्रेण भगवान् एकस्मिन्नेव स्कन्ध आरोपित इन्द्राण्या उभयो स्कन्धयोः वधूयुग्ममारोपितं तेन आत्मानं न्यूनत्वेन न मेने । भगवान् एकोऽपि गुरुः, वध्वौ तु अबले ३ इति भावः ॥ ५२ ॥
तत्र तौ प्रमदनिर्मितनृत्यौ,
तं च ते च परितोषयतः स्म । क्ष्मां तदंहिकमलस्पृहयालं,
प्रक्षरत्सुमचयैः सुखयन्तौ ॥ ५३ ॥ तत्र तत्र तस्मिन्नवसरे तो शचीन्द्रौ प्रमदनिर्मितनृत्यौ ५ हर्षेण कृतनाट्यौ सन्तौ तं च भगवन्तं ते च कन्ये परितोषयतः स्म, हर्षयतः स्म । किं कुर्वन्तौ शचीन्द्रौ ? तदंहिकमलस्पृहयालं तस्य भगवतश्चरणकमलस्पृहणशीलां मां पृथ्वी १२ प्रक्षरद्भिः सुमचयैः पुष्पसमूहैः सुखयन्तौ ॥ ५३ ।।
अप्सरोभिरिति कौतुकगाने
ऽप्यस्य न स्मरवशत्वमभाणि । मास लजिततरस्तरुणीना
मिष्टमेष कषदेकभटस्तम् ॥ ५४॥ अप्स० अप्सराभिर्देवांगनाभिरित्यस्मात् कारणात् कौतुकगाने १८ कौतुकेन गीतगानमध्येऽपि अस्य भगवतः स्मरवशत्वं न अभाणि न भणितम् । इतीति किम् ? एकभट एष भगवान् लज्जिततरो लज्जितः सन् तरुणीनां स्त्रीणां इष्टं तं स्मरं तं कंदर्प मास्म कपद् मास्म हिंसीत् ॥ ५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org