SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] जैनकुमारसंभवं १८५ ज्ञानां पूरितानां नारीणां नेत्रैरेव नीलनलिनैर्नील कमलैः अंचितः पूजितः, कायो देहो यस्य सः । पुनः किंलक्षणः स्वामी ? तासु स्त्रीषु काञ्चनमुदं काञ्चनपूर्वी मुदं हर्षं प्रददानः, ३ पक्षे कांचनं सुवर्णं प्रभुपूजायाः फलं, 'देवचणेण रजं' इति वचनात् ॥ ४८ ॥ हस्तिनो हसित मेरुमहिम्नो, गाङ्गपूरवदथावतरन्तम् । वासवः शमितपातकतापं, तं दधौ युगतमेव बलोयः ॥ ४९ ॥ हस्ति० अथानन्तरं वासव इन्द्रस्तं भगवन्तं हस्तिना ऐरावणात् अवतरंतम् स्रुगतमेव आकाशस्थमेव दधौ धृतवान्, किंलक्षणः इन्द्रः ? बलेन उग्रः उत्कटः अथवा उग्र ईश्वरः १२ यथा उम्र ईश्वरो मेरोः मेरुपर्वतादवतरं तं गाङ्गपूरं गङ्गायाः पूरं युगतमेव आकाशस्थमेव दधौ धृतवान् । किंविशिष्टाद् हस्तिनः ? हसितमेरुमहिम्नः । किंलक्षणं तं भगवन्तम् ? १५ शमितपातकतापम् ॥ ४९ ॥ हेमकान्तिहरिणा हरिणाक्षीयामलं पुनरदीयत शच्यै । पाणिभूषणतया क्षणमस्या स्तत्सुवृत्तमभजद्वलयाभाम् ॥ ५० ॥ हेम० हरिणा इन्द्रेण हेमकान्तिसुवर्णवत्कान्तिर्यस्य तद् हेमकान्ति, हरिणाक्षीयामलं वधूयुगलं, पुनः शच्यै इन्द्राण्यै २२ Jain Education International १८ For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy