SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८४ टीकया सहितम् [पञ्चमः इति अमुना प्रकारेण, सेयं ईर्षासहितं यथा भवति तथा उवाच । इतीति किम् ? प्रभुः खामी प्रागपि अग्रेऽपि रमणीयोs३ भूत् । विबुधैर्देवैरस्य भगवतः काऽधिका श्रीः शोभा विदधे कृता । यत् यस्मात् कारणात् , त एव विबुधा अमुं भगवन्तं परियन्ति परिवृण्वन्ति ॥ ४६ ॥ ६ मुश्च वर्त्म सखि ! पृष्ठगतापि, त्वं निभालयसि नाथमकृच्छ्रम् । इत्युपात्तचटुवाक् पुरतोऽभूत् , कापि खर्ववपुरुचतरांग्याः ॥४७॥ मुञ्च० कापि खर्ववपुर्वा मनशरीरा स्त्री उच्चतरांग्याः उच्चैस्तरायाः स्त्रिया इति अमुना प्रकारेण उपात्तचटुवाक् १२ गृहीतचाटुवचना सती पुरोऽग्रेऽभूत् । इतीति किम् ? हे सखि ! त्वं वर्त्म मार्ग मुंच, त्वं पृष्ठगतापि पृष्ठौ स्थितापि सती नाथं खामिनं अकृच्छ्रे सुखेन निमालयसि विलोक१५यिष्यसि ।। ४७॥ एवमद्भुतरसोम्भितनारी नेत्रनीलनलिनांचितकायः। ४ तासु काञ्चनमुदं प्रददाना, खालयाग्रमगमजगदीशः॥४८॥ एव० जगदीशो जगन्नाथः खालयानं खीयावासद्वारं अगमत् । किंलक्षणो जगदीशः १ एवं पूर्वोक्तप्रकारेण अद्भुत२२ रसोम्भितनारीनेत्रनीलनलिनांचितकायः, अद्भुतरसेन उम्भि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy