________________
१८२
टीकया सहितम् [पञ्चमः कजलं नखशिखासु निवेश्या__ लक्तमक्षणि च वीक्षणलोला । कंठिकां पदि पदांगदमुच्चैः ___ कंठपीठलुठितं रचयन्ती ॥ ४२ ॥ मजनात् परमसंयतकेशी,
वैपरीत्यविधृतांशुकयुग्मा । काचिदागतवती ग्रहिलेव, त्रासहेतुरजनिष्ट जनानाम् ॥ ४३॥
युग्मम् ॥ कज० मज्जनात्० परमसंयतकेशी वैपरीत्यविधृतांशुकयुग्मा काचिदागतवती अहिलेव । काचित् स्त्री गृहिलेव आगत१२ वती आयाता सती जनानां लोकानां त्रासहेतुरजनिष्ट जाता। किंलक्षणा स्त्री ? वीक्षणलोला विलोकनचपला । किं कुर्वती ?
कजलं नखशिखासु निवेश्य । च पुनः, अलक्तं अक्षणि १५ लोचने निवेश्य, कण्ठिकां कण्ठिकाभरणं पदि चरणे निवेश्य,
पदांगदं नूपुरं उच्चैः कंठपीठलुठितं रचयन्ती ॥ पुनः किं
लक्षणा स्त्री ? मजनात् परं स्नानादनन्तरं असंयतकेशी अबद्ध१८ कुन्तला। पुनः किंलक्षणा स्त्री वैपरीत्यविधृतांशुकयुग्मं परिधान
वस्त्रं शीर्षे शीर्षवस्त्रं परिधाने, एवं विपरीतत्वेन धृतवस्त्रयुगला ॥ ४२ ॥ ४३ ॥ युग्मम् ॥
यौवतेन जविना वरवीक्षा
धाविना विधुरितप्रसरान्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org