SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं १८१ निकरे ? नायकानननिवेशितनेत्रे नायकस्य श्रीऋषभदेवस्य आनने मुखे दत्तलोचने ॥ ३९ ॥ तत्समिनिशमनोच्छसितान्या, कंचुकत्रुटिपटूकृतवक्षाः । यौवनोत्कटकटाक्षितकुन्तैः, पाटितापि सुभटीव पुरोऽभूत् ॥४०॥ ६ तत्सं० अन्या स्त्री यौवनोत्कटकटाक्षितकुन्तैयौवनेन उत्कटास्तरुणाः पुरुषास्तेषां कटाक्षा एव कुन्ताः भल्लास्तैः पाटितापि विदारितापि सुभटीव पुरोऽग्रेऽभूत् । किंलक्षणा ९ अन्या ? तत्समिन्निशमनोच्छसिता तस्य भगवतः समित् सभा संग्रामो वा तस्य निशमनेन निरीक्षणेन उच्छसिता । पुनः किंलक्षणान्या ? कंचुकत्रुटिपटूकृतवक्षाः, कंचुकः कंचुलिका १२ जरादावा (१) तस्या त्रुटिः त्रोटनेन पटूकृतं वक्षो हृदयं यस्याः सा कंचुकत्रुटिपटूकृतवक्षाः ॥ ४० ॥ तूर्णिमूढगपास्य रुदन्तं, पोतमोतुमधिरोप्य कटीरे । कापि धावितवती नहि जज्ञे, __ हस्यमानमपि जन्यजनैः स्वम् ॥४१॥ १० तूर्णि० कापि स्त्री जन्यजनैः खं हस्यमानमपि नहि जज्ञे नहि ज्ञातवती । किं कृतवती ? पोतं बालं रुदन्तं अपास्य त्यक्त्वा ओतुं बिडालं कटितटे अधिरोप्य धावितवती ।२१ किंलक्षणा स्त्री ? तूर्णिमूढदृक् , तूर्ध्या औत्सुक्येन मूढा दृष्टिर्यस्याः सा तूर्णिमूढदृक् ।। ४१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy