________________
१८०
टीका सहितम्
[ पञ्चमः
निनदो ध्वनिः प्रससार, सतूरपूरनिनदः खमन्दिरगतासु आत्मीयावासस्थितासु ललनासु स्त्रीषु आकृष्टिमंत्रतुलनां ३. बभार । कोऽर्थः ? तूरपूरनिनदेन खामिनं नवपरिणीतं सवधूकमागच्छन्तं श्रुत्वा स्त्रियः सर्वव्यापारं विमुच्यागता विलोकनायेति भावः ॥ ३७ ॥
पंक्ति मौक्तिकनिवेशनिमित्तं, स्वक्रमांगुलिकया धृतसूत्राम् । हारयष्टिमवधूय दधावे,
पंक्ति० काचित् स्त्री हारयष्टिं अवधूयावगणय्य दधावे धाविता । केव ? करिवधूरिव यथा करिवधूर्हस्तिनी वीरुधं १२ वल्लीं अवधूय धावति । किंविशिष्टां हारयष्टिम् ? पंक्ति मौक्तिकनिवेशनिमित्तं पंक्त्या मौक्तिकनिवेशार्थं वक्रमाङ्गुलिकया आत्मीयचरणांगुष्ठेन धृतसूत्राम् ॥ ३८ ॥
कापि नार्ययमितश्लथनीवीप्रक्षरन्निवसना (प्य?) ललज्जे ।
नायकानननिवेशित नेत्रे,
१५
वीरुधं करवधूरिव काचित् ॥ ३८ ॥
१८
जन्यलोकनिकरेऽपि समेता ॥ ३९ ॥
कापि ० कापि स्त्री अयमितश्लथनीवी अयमिताया अत एव हेतोः श्रथाया नीव्या मेखलायाः प्रक्षरन्निवसनापि क्षरद्वत्रापि सती न ललज्जे । लज्जाया अभावहेतुमाह, किंलक्षणा २२ काचित् ? जन्यलोकनिकरे समेतापि । किंविशिष्टे जन्यलोक -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org