SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं १७९ भङ्गुराः त्रुटिता हारास्तेभ्यः सस्तक्षरितमौक्तिकमिषादमृतबिन्दून् अतत विस्तारयति स्म ॥ ३५ ॥ गेयसारधवलः प्रमदौघैः, क्लीवदुर्वहकरग्रहचिह्नः । सोऽभ्यगादहमथो परदेशा भूमिपाल इव लब्धमहेलः ॥ ३६॥ ६ गेय० अथो अथानन्तरं स भगवान् गृहं अभ्यगात् गृहं प्रति ययौ । किंविशिष्टः भगवान् ? प्रमदानां स्त्रीणां समूहैर्गेयाः सारा धवला यस्य सः। पुनः किंविशिष्टः ? क्लीबैः षण्डैः दुर्वहं ९ करग्रहं चिह्न (यस्य) पाणिग्रहणचिहं यस्य सः। पुनः किंविशिष्टः? लब्धे प्राप्ते महेले स्त्रियौ येन सः । क इव ? भूमिपाल इव, यथा भूमिपालो राजा परदेशात् गृहं अभ्येति । किंविशिष्टः १२ भूमिपालः ? प्रमदानां हर्षाणां समूहे गेयं, सारं बलं तेन धवल उज्ज्वलः । पुनः किंविशिष्टः ? क्लीबैः कातरैर्दुर्वहं करग्रहस्य सर्वदेशदण्डग्रहणस्य चिह्नं यस्य सः । पुनः किंविशिष्टः? लब्धा १५ महती इला पृथ्वी, ईडा स्तुतिर्वा येन सलब्धमहेलः । डलयोरैक्यम् ॥ ३६॥ स्वामिनः पथि यतः पुरतो य. स्तूरपूरनिनदः प्रससार । स स्वमंदिरगतासु बभारा कृष्टिमंत्रतुलनां ललनासु ॥ ३७॥ खामि० स्वामिनः श्रीऋषभदेवस्य पथि मार्ग यतः गच्छतः सतो यस्तत १ वितत २ घन ३ शुषिराणां ४ तूराणां पूरस्य २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy