________________
१७८
टीकया सहितम् [पञ्चमः यन्न० मघवा इन्द्रो यन्ननर्त । अत्र नृत्ये शंभुभरतौ शंभुः ईश्वरो महानटत्वात् , भरतो भरतशास्त्रकर्तृत्वात् अनघवाक्त्वं ३अनघा निर्दुष्टा वाग् वाणिस्तस्या भावः अनघवाक्त्वं एतावता
उपदेशकत्वं न बिभृतः स्म । तु पुनः । तद्विवाह विधिसिद्धनिजेच्छाभूस्तस्य खामिनो विवाहविधेः सिद्धाः निष्पन्ना ६या निजेच्छा ततो भूरुत्पन्नः, प्रमदो हर्षः एव गुरुरभूत् । गुरुराचार्यः प्रौढो वा, गुरुहीना च नृत्यादिकला न स्यात् ॥ ३३॥ ९ नृत्यतोऽस्य करयुग्ममलासी
न्मुक्तिमेवमुपरोद्धमिवोर्ध्व । नात्र नेतरि विरक्तिवयस्यां,
संग्रति प्रहिणुया वरणाय ॥ ३४ ॥ नृत्य अस्य इन्द्रस्य नृत्यतः सतः करयुग्मं ऊवं अलासीत् , किं कर्तु? उत्प्रेक्ष्यते-मुक्तिं एव उपरोद्धमिव । एवमिति १५ किम् ? न अत्र अस्मिन् , नेतरि खामिनि संप्रत्यधुना विरक्तिवयस्यां वैराग्यसखीं वरणाय प्रहिणुया नैव प्रेषयेः ॥ ३४ ॥
अङ्गहारभरभङ्गुरहार
सस्तमौक्तिकमिषामृतबिन्दून् । अप्सरःसरसगानसमाने,
नर्तनेऽतत शचीप्रमदाब्धिः ॥ ३५॥ २१ अङ्ग० शचीप्रमदाब्धिः इन्द्राणीहर्षसमुद्रः अप्सरः___ सरसगानसमाने नर्तने नृत्यावसरे सति अङ्गहारभरभङ्गुरहार२३ सस्तमौक्तिकमिषामृतबिन्दून्-अङ्गहारभरेण अङ्गविक्षेपसमूहेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org