SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं सति भोजनं योषिदधीनं योषितां स्त्रीणां अधीनं आयत्तं ज्ञेयम् ॥ ३०॥ वासवोऽथ वसनांचलमोक्षं, निर्ममे विधिवदीशवधूनाम् । विश्वरक्षणपरस्य पुरोऽस्या ऽचेतनेष्वपि चिरं न हि बन्धः ॥३१॥ ६ वास० अथानन्तरं वासव इन्द्रः ईशवधूनां विधिवल्लो. कोक्तप्रकारेण वसनांचलमोक्षं निर्ममे कृतवान् । विश्वरक्षणपरस्य अस्य भगवतः पुरः अचेतनेष्वपि बन्धश्चिरं न हि ९ स्यात् , 'अजीवाणारंभं' इत्यागमेऽपि वचनं ॥ ३१॥ ऊढवद्विभुमुखेन्दुनिरीक्षा__मेदुरप्रमदवारिधिवीच्यः । नाकिनां हृदयरोधसि लग्ना. स्तेनिरे तुमुलमंबरपूरम् ॥ ३२ ॥ ऊढ० ऊढवत्परिणीतप्रभोर्मुखेन्दोर्मुखचन्द्रस्य निरीक्षातो १५ दर्शनतो मेदुराः स्थूलाः प्रमदवारिधेः हर्षसमुद्रस्य वीच्यः कल्लोला नाकिनां देवानां हृदयरोधसि हृत्तटे लमाः सत्योऽम्बरपूरं आकाशपूरणसमर्थ, तुमुलं कोलाहलं तेनिरे १८ कुर्वन्तिस्म ॥ ३२॥ यन्ननर्त मघवानघवाक्त्वं, . नात्र शंभुभरतौ विभृतः स्म । तद्विवाह विधिसिद्धनिजेच्छा. भूरभूत्प्रमद एव गुरुस्तु ॥ ३३ ॥ जै० कु. १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy