SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७६ जैनकुमारसंभवं [पञ्चमः पाणिः, वल्लनावसरे भोजनावसरे पाणिगृहीत्योः पत्योः वक्रे मुखे संगमितो मेलितः पाणिः हस्तो येन स, एवंविधः सन् ३ अराजत शोभितः, उत्प्रेक्ष्यते-सोमतामरसयोश्चन्द्रकमलयो र्जातिविरोधं निहन्तुं विनाशयितुं जातयत्नः कृतोपक्रम इव । एतावता पत्न्योः मुखचन्द्रः प्रभोर्हस्तकमलमितिभावः ॥२८॥ भक्ष्यमादतुरिमे पतिपाणि__ स्पर्शपोषितरसं मुदिते यत् । तजनेन युवतीजनवृत्तेः, पुंस्यवस्थितिरिति प्रतिपेदे ॥ २९॥ भक्ष्य० इमे सुमङ्गलासुनन्दे मुदिते हर्षिते सत्यौ पतिपाणिस्पर्शपोषितरसं पतिपाणिर्भर्तृहस्तस्पर्शेन पोषितरसं यद्भक्ष्य १२ आदतुः भुञ्जते स्म, तत् तस्मात् कारणात् , जनेन लोकेन इति प्रतिपेदे प्रतिपन्नं आहतम् ? इतीति किम् ? युवती जनवृत्तेः स्त्रीजनस्य वृत्तनिर्वाहस्य पुंसि पुरुषे अवस्थितिः अवस्थानं १५ज्ञेयं, स्त्रीणां पुरुषान्निर्वाह इति भावः ॥ २९ ॥ पाणिना प्रभुरथ प्रणयिन्यो यत्तदा किमपि भक्ष्यमभुंक्त । १८ प्राभवेऽपि नृषु यौषिदधीनं, __ भोजनं तदिति को न जगाद ॥३०॥ पाणि० अथानन्तरं प्रभुः प्रणयिन्योः पन्योः पाणिना २१ हस्तेन तदा तस्मिन्नवसरे यत्किमपि भक्ष्यं अभुंक्त । तत् तस्मात् कारणात् इति को न जगाद अपितु सर्वः कोपि २३ जगौ । इतीति किम् ? नृषु पुरुषेषु प्राभवेपि प्रभुत्वेपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy