SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] टीका सहितम् याः पुरो मघवतास्य विमुक्तास्ता वदामि विशदा भुवि मुक्ताः । क्षारपंकवसनादितरासां, क्षीण एव खलु शुक्तिमगर्वः ॥ २२ ॥ " या० मघवता इन्द्रेण अस्य भगवतः पुरो अग्रे या मुक्ता विमुक्ताः, अहं भुवि पृथ्व्यां ता मुक्ता मौक्तिकानि विशदा ६ उज्ज्वला वदामि तद्यथा - 'तारं वृत्तं गुरु स्निग्धं कोमलं निर्मलं तथा । षड्भिर्गुणैः समायुक्तं मौक्तिकं गुणवत् स्मृतम्' ॥ १ ॥ ईदृग्गुणयुक्ता दोषमुक्ता मुक्ता विशदा उच्यन्ते, इतरासां ९ मुक्तानां क्षारपंकवसनात् खलु निश्चिंतं, शुक्तिमगर्वः धवलितागर्वः क्षीण एव ॥ २२ ॥ दीपकाः सदसि यन्मणिजालैः, क्रोधिताः स्वमहसा परिभूय । " १७३ कुत्फलं शलभकेषु वितेनु स्ता अढौकयदमुष्य स भूषाः ॥ २३ ॥ दीप० स इन्द्रोऽमुष्य भगवतो हारार्द्धहारकटककेयूरनक्षत्रमालास्ता भूषा आभरणान्यढौकयत् ढौकितवान् । सदसि सभायां दीपकाः यन्मणिजालैर्यासां भूषाणां मणिसत्ककिरण- १८ समूहैः स्वमहसा आत्मीयतेजसा परिभूय पराभवस्थानं कृत्वा क्रोधिता ईर्ष्या प्रापिताः सन्तः कुत्फलं क्रोधफलं शलभकेषु पतंगेषु वितेनुश्चक्रुः ॥ २३ ॥ श्लक्ष्णशुभ्रमृदुरादित रंभा - स्तंभभङ्गभवतंतुसमूहः । Jain Education International For Private & Personal Use Only १५ २१ २३ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy