SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १७४ जैनकुमारसंभवं [पञ्चमः यद्गुणोपमितिलेशमृभुक्षा स्तानि तस्य सिचयान्युपनिन्ये ॥ २४ ॥ ३ श्लक्ष्ण० ऋभुक्षा इन्द्रस्तानि सिचयानि चीनांशुकपट्टांशुकगोर्जनेर्मनीलनेत्र ! हीरागर वइरागर जादरमेघाडंबरप्रभृतिवस्त्राणि उपनिन्ये ढोकयामास । सिचयशब्दः पुनपुंसकलिङ्गे के ज्ञेयः। रंभास्तंभभंगभवतंतुसमूहः-रम्भा कदली तस्याः स्तंभस्तस्य यो भंगस्तद्भवस्तंतुसमूहः । यद्गुणोपमितिलेशं येषां सिचयानां गुणास्तंतवस्तेषां उपमितिलेशं उपमानभवं आदित गृह्णाति स्म । ९ किंलक्षणः रम्भास्तंभभंगभवतंतुसमूहः ? श्लक्ष्णः शुभ्रः मृदुः सूक्ष्मः धवलकुसुमालः ॥ २४ ॥ यन्मरीचिनिकरे ननु विष्व१२ द्रीचिवीचिसदृशे जलराशेः। पोतति स सयुवापि निविष्टो, रत्नविष्टरमदात्स तमस्सै ॥२५॥ १५ यन्म० स इन्द्रः अस्मै भगवते तं रत्नविष्टरं रत्नमयं सिंहा सनं अदात् । स भगवान् युवापि तरुणोऽपि यत्र रत्नासने निविष्टः सन् यन्मरी चिनिकरे यस्य रत्नासनस्य किरण१८ समूहे पोतति स्म, पोतो बालः प्रवहणं वा तद्वदाचरति स्म । किंविशिष्टे यन्मरीचिनिकरे? ननु निश्चितं विष्वद्रीचि विष्वग् समंततः प्रसृत्वरे 'सर्वादिविष्वग् देवा.' (सि० है. ३।२।१२२) इत्यादिसूत्रेण विष्वद्रीचिनिष्पत्तिः । पुनः २२ किम् ? जलराशेः समुद्रस्य वीचिभिः कल्लोलैः सदृशे ॥ २५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy