________________
१७२
जैनकुमारसंभवं
[ पञ्चमः
गृहं यत् अधिकमलं चरणकमलं तस्य अग्रदलत्वं निरूचे निश्चितमूचे । कोऽर्थः ? खामिसत्कचरणकमले निश्चितं लक्ष्मीर्व३ सति, यः कोऽपि एकचित्तः तत् सेवते स लक्ष्मीमवश्यं प्राप्नोत्येव ॥ १९ ॥
पाणिमोचनविधावथ सार्द्धद्वादशास्य पुरतोऽर्जुनकोटीः । वासवः समकिरत् कियदेतत्,
तस्य यः करवसच्छतकोटिः ॥ २० ॥ ९ पाणि० अथानन्तरं वासव इन्द्रः अस्य भगवतः पाणिमोचनविधौ पुरतो अग्रे सार्द्धद्वादश अर्जुनकोटीः सुवर्णकोटीः, समकिरत् विक्षिप्तवान् । तस्य एतत् कियद् यः १२ करवसच्छतकोटिः, करे वसंती शतसंख्याकोटिः शतकोटिर्वजं वा यस्य स ईदृक् वर्तते ॥ २० ॥
१५
रोहणाद्रिविलवासितयाऽन्योपक्रियाव्रतमहारि पुरायैः । तैस्तदा गिरिभिदास्य वितीर्णैः स्वीयसृष्टिफलमाप्यत रत्नैः ॥ २१ ॥
१८
रोह० यैः रतैः पुरा पूर्वं रोहणाद्विबिलवासितया रोहणा - चलसत्कगहरवासित्वेन अन्योपक्रियात्रतं परोपकारकरणत्रतं अहारि । तदा तस्मिन्नवसरे तैः रलैः गिरिभिदा इन्द्रेण अस्य भगवतो वितीर्णैर्दत्तैः, सद्भिः स्वीयसृष्टिफलं आप्यत, प्राप्यते २२ स्म ॥ २१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org