SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् १७१ लक्षणः ? शुचिः पवित्रः । किंविशिष्टं अग्निम् ? विबुधवल्लभगोत्रं विबुधानां देवानां वल्लभं गोत्रं नाम यस्य सः, 'अग्निमुखा वै देवा' इति वचनात् , द्वितीये अर्थे शुचिः सूर्यो विबुधानां३ वल्लभं गोत्रं पर्वतं मेरुं प्रदक्षिणतया भ्रमति । किंविशिष्टः सूर्यः? पद्मिनीभिः कमलिनीभिः समवलंबिता हस्ताः करा यस्य सः । शेषं पूर्ववत् ॥ १७ ॥ यत्तदा भ्रमिरतः परितोऽग्निं, मङ्गलाष्टकरुचिर्विभुरासीत् । कुर्वतोऽस्य पुरतः किमजस्रं, मङ्गलाष्टकमतो मतिमन्तः॥१८॥ यत्त० विभुः खामी तदा तस्मिन्नवसरे अग्निपरितो भ्रमिभ्रमणं तस्यां रत आसक्तः सन् यन्मंगलाष्टकरुचिरासीत् , अतः १२. कारणात् मतिमन्तो विद्वांसः अस्य भगवतः पुरतोऽग्रे किं अजस्रं निरंतरं मङ्गलाष्टकं कुर्वते ॥ १८ ॥ श्यालकप्रतिकृतिः प्रभुपादां गुष्ठमिष्टविभवेच्छुरगृह्णात् । पूर्णमेष तमितोऽस्य निरूचे, श्रीगृहांघ्रिकमलाग्रदलत्वम् ॥ १९॥ १८ श्याल० श्यालकप्रतिकृतिः श्यालकसदृशः पुमान् इष्टं अभीष्टं, विभवं द्रव्यं, इच्छतीति इष्टविभवेच्छुः सन् प्रभुपादांगुष्ठं स्वामिसत्कचरणस्यांगुष्ठं अगृण्हात् गृहीतवान् , एष २१ श्यालकप्रतिकृतिः, पूर्ण संपूर्ण तं विभवं इतः प्राप्तः सन् अस्य प्रभुपादांगुष्ठस्य श्रीगृहांघ्रिकमलाग्रदलत्वं, श्रिया लक्ष्म्या २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy