SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १७० जैनकुमारसंभवं [पञ्चमः खां सखीमकृत । एतावता गौरवर्णत्वात् चंपकमालासदृशो भगवतो देहः, तत्र लग्मो धूमश्च भ्रमरसमूहसदृशः, एवं भगवतो ३ देहस्य चंपकमालायाश्च सखीत्वं सादृश्यं ज्ञेयमिति ॥ १५ ॥ धूमराशिरसितोऽपि चिरंट्यो लोहितत्वमतनोन्नयनानाम् । ६ चूर्णकश्च धवलोऽपि रदानां, रागमेधयति रागिषु सर्वम् ॥ १६॥ धूम० असितोऽपि कृष्णोऽपि धूमराशिश्चिरंट्योर्वधूट्योन९ यनानां लोचनानां लोहितत्वं आरक्तत्वं अतनोत् करोतिस्म । च पुनः । धवलोऽपि चूर्णको रदानां दन्तानां लोहितत्वं आरक्तत्वं अतनोत् कृतवान् , रागिषु रागवत्सु सर्व वस्तु रागं एधयति १२वर्धयति ॥ १६ ॥ पद्मिनीसमवलंबितहस्तो, बभ्रमभ्रमददभ्रतरार्चिः। ५५ स प्रदक्षिणतया परितोऽग्निं, ___ तं शुचिं विबुधवल्लभगोत्रम् ॥ १७॥ पद्मि० स भगवान् पद्मिनीसमवलम्बितहस्तः पद्मिनी१० लक्षणाभ्यां सुमंगलासुनन्दाभ्यां समवलंबितहस्तः सन् बभ्रु पीतवर्णं अग्निं परितः प्रदक्षिणतया अभ्रमत् भ्रमतिस्म । अभ्रमत् इति 'भ्रमूच् अनवस्थाने' इति दिवादिधातुः परं । 'भ्रासभ्लास२. भ्रमक्लमक्रमत्रसित्रुटिलषियसिसंयंसेवा' (३।४।७३) इतिसूत्रेण विकल्पात् दिवादेयं न भवति, अत्र किंलक्षणो भगवान् ? . २३ अदभ्रतरार्चि अदभ्रतरं बहुतरं अर्चिस्तेजो यस्य सः, पुनः किं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy