SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १६९ सर्गः] टीकया सहितम् पवित्रस्य हविषो होतव्यद्रव्यस्य परिषेकात् सेचनात् उत्तरोतरशिखोऽधिकाधिकविशेषः स बभासे दीप्यते स्म । किं कुर्वन् अग्निः ? अस्मै भगवते यावदायुः, आयुर्यावदधिकाधिकदीप्तिं ३ सूचयन् कथयन् । किंविशिष्टोऽग्निः ? परमहःपदं परं प्रकृष्टं महस्तेजस्तस्य पदं स्थानम् ॥ १३ ॥ हेम्नि धाम मदुपाधि कथं ते, ____मां विना वपुरदीप्यत हैमम् । प्रष्टुमेवमनलः किमु धूम, खांगजं प्रभुमभि प्रजिघाय ॥ १४॥ ९ हेनि० अनलो वैश्वानरः खांगजं आत्मीयपुत्रं धूमं प्रभु अभि खामिसंमुखं किमु एवं प्रष्टुं प्रजिघाय प्रहिणोतिस्म । एवमिति किम् ? हे खामिन् ! हेम्नि सुवर्णे धाम तेजो मदुपाधि १२ मन्निमितं वर्तते । मां विना ते तव हैमं वपुः सुवर्णमयं शरीरं कथमदीप्यत ? ॥ १४ ॥ सोऽभितः प्रसृतधूमसमूहा श्लिष्टकांचनसमद्युतिदेहः। खां सखीमकृत सौरभलुभ्य ढुंगसंगमितचंपकमालाम् ॥१५॥ १० सो० स भगवान् अभितः समंततः प्रसृतधुमसमूहाश्लिष्टकांचनसमद्युतिदेहः, प्रसृतेन धूमसमूहेन आश्लिष्टः आलिजितः, काञ्चनसमद्युतिः सुवर्णसमानकान्तिदेहो यस्य स एवंविधः सन् २१ सौरभलुभ्यद्धंगसंगमितचंपकमालां, सौरभ्येण परिमलेन लुभ्यन्ते भुंगा भ्रमरास्तैः संगमितां मिलितां चंपकसत्कमालां, २३ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy