SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६८ जैनकुमारसंभवं [पञ्चमः एणदृग्द्वयमुदस्य मघोनी, वासवश्च वरमद्भुतरूपम् । वेदिकामनयतां हरिदुच्चै वंशसंकलितकांचनकुंभाम् ॥ ११ ॥ एण० मघोनी इन्द्राणी एणगद्वयं वधूद्वयं, च पुनर्वा६ सव इन्द्रोऽद्भुतरूपं वरं उदस्योत्पाट्य वेदिकां चतुरिकामानयतां गृहीतवन्तौ, किंलक्षणां वेदिकाम् ? हरिदुच्चैवंशसंकलितकाञ्चनकुम्भां हरितो नीला एतावता आर्द्रा उच्चा वंशास्तैः संकलिताः ९ कांचनकुंभाः, सुवर्णकलशा यस्यां सा ताम् ॥ ११ ॥ कोऽपि भूधरविरोधिपुरोधा स्तत्र नूतनमजीज्वलदग्निम् । १२ यः समः सकलजन्तुषु योग्यः, स प्रदक्षिणयितुं न हि नेतुः ॥ १२ ॥ को० कोऽपि भूधरविरोधिपुरोहितः, तत्र तस्यां वेदिकायां १५ नूतनं नवीनं अग्निं अजीज्वलत् ज्वालयति स्म । यो अमिः सकलजन्तुषु सर्वप्राणिषु समः सदृशोऽस्ति, सोऽग्निर्नेतुः खामिनः प्रदक्षिणयितुं न हि योग्यः ॥ १२ ॥ मंत्रपूतहविषः परिषेका दुत्तरोत्तरशिखः स बभासे। सूचयन् परमहःपदमसै, यावदायुरधिकाधिकदीप्तिम् ॥ १३ ॥ २९ मंत्र० सोऽमिः मंत्रपूतहविषः परिषेकात् मंत्रेण पूतस्य १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy