SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सर्गः ] टीका सहितम् १६७ पर्वणि अवसरायातपरस्परकनीनिकामेलनोत्सवे न तत्यजुः, हि निश्चितं, देहिनां प्राणिनां सहजं, दुरपोहं दुस्त्याज्यम् ॥ ८ ॥ ३ " स्वर्वधूविहित कौतुक गानोपज्ञमस्य वपुषि स्तिमितत्वम् । योगसिद्धिभवमेव मघोना शंकि वेद चरितं महतां कः ॥ ९ ॥ खर्व० मघोना इन्द्रेण अस्य भगवतो वपुषि शरीरे तिमि - तत्वं निश्चलत्वं योगसिद्धिभवमेव योगसिद्धेः समुत्पन्नमेव आशंकि शङ्कितम् । किंलक्षणं स्तिमितत्वम्? खर्वधू विहित - ९ कौतुक गानोपज्ञं खर्वधूभिर्देवांगनाभिर्विहितं कृतं यत् कौतुकानं, तेन उपज्ञं प्रणीतम् । महतां चरितं को वेद को जानाति, अपि तु न कोऽपि ॥ ९ ॥ बद्धवान् वरवधूसिचयानामंचलान् स्वयमथाशु शचीशः । एवमस्तु भवतामपि हार्दग्रन्थि Jain Education International १२ इति प्रथितोक्तिः ॥ १० ॥ बद्ध० अथानन्तरं शचीश इन्द्रः वरवधूसिचयानां वरवधूनां सिचयानां वस्त्राणां अञ्चलान् आशु शीघ्रं स्वयं बद्धवान् । किं- १८ लक्षणः इन्द्रः ? इति प्रथितोक्तिः, इति अमुना प्रकारेण विस्तारितवचनः । इतीति किम् ? एवं अमुना प्रकारेण भवतामपि हार्दग्रन्थिः हार्दस्य स्नेहस्य ग्रन्थिः अश्लथो ढोऽस्तु ॥ १० ॥ For Private & Personal Use Only १५ २२ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy